
हरिकृष्ण शुक्ल/देहरादून। सावनसोमवासरे पवित्रपर्वणि राज्यस्य प्रमुखेषु शिवमन्दिरेषु भक्तजन समूहः समागतः। प्रातःकालात् एव मन्दिरेषु भक्तानां दीर्घाः पङ्क्तयः दृश्यन्ते स्म । सर्वे ‘हर-हर महादेव’, ‘बोल बम’ इति जपैः जलघटैः सह भगवान् शिवस्य जलाभिषेकं कर्तुं प्राप्तवन्तः। मुख्यमन्त्री पुष्करसिंह धामी अपि पत्नी गीता धामी सह जलाभिषेककृतवान् । सः भोलेनाथं राज्यस्य जनानां कल्याणाय, सुखाय, समृद्धाय च प्रार्थितवान्। अपरपक्षे श्रीनगरस्य कटकेश्वर महादेवमन्दिरं अपि बहुसंख्याकाः भक्ताः प्राप्तवन्तः। मन्दिरे जलभीषेकस्य विशेषव्यवस्था कृता । भक्ताः विधिपूर्वकं पूजयित्वा शिवं स्वक्लेशनिवृत्त्यर्थं प्रार्थयन्ति स्म। देहरादूनस्य धरमपुरे स्थिते प्राचीने शिवमन्दिरे प्रातःकालादेव शिवभक्तानाम् आन्दोलनं जातम्। भक्ताः शिवलिंगे जलं बेलपत्रं च दत्त्वा भोलेनाथस्य अभिषेकं कृतवन्तः। भक्ताः शिवनाम जपं कृत्वा वातावरणं भक्तिपूर्णं कृतवन्तः। अरघरे स्थिते पंचायत मन्दिरे शिवभक्ताः पूर्णभत्तäया जलभीषेकमपि कृतवन्तः। मन्दिरसमित्या विशेष पूजायाः आयोजनं कृतम्। अयं पवित्रः सावनोत्सवः शिवभक्तिभावं गभीरं करोति। प्रतिसोमवासरे जनाः उपवासं कृत्वा शिव मन्दिराणि जलं अर्पयितुं गच्छन्ति।