योगम् अभिज्ञातुं संस्कृतम् अनिवार्यम्-डॉ.उदयन हेगडे

प्रवेशकुमारशुक्ल:/लखनऊ। उत्तरप्रदेश-संस्कृत-संस्थानस्य लखनऊ-नगरस्थितस्य तत्त्वावधाने निदेशकस्य विनय-श्रीवास्तवस्य मार्गदर्शनेन सञ्चालिते ‘ऑनलाइन-प्रशिक्षण-पाठ्यक्रम-निर्माण-योजनायाः’ अन्तर्गते संस्कृतभाषा-शिक्षण कक्षाणां परतया ‘योगस्य भाषा संस्कृतम’ इति विषयकं प्रेरणासत्रम् आयोजनं सम्पन्नम्। मुख्यवक्तृरूपेण राष्ट्रिय-संस्कृत-विश्वविद्यालयस्य तिरुपति नगर स्थितस्य व्याकरण विभागीयः सहाय्यकाचार्यः डॉ० उदयन हेगडे ‘योगस्य भाषा संस्कृतम्’ इति विषयम वलम्ब्य विवेचनं कृतवान्। सः अवदत् यत्-२१ जून दिनाङ्के सम्पूर्णे विश्वस्मिन् अन्ताराष्ट्रिय-योग-दिवसस्य आयोजनं भविष्यति। योगः अस्माकं भारतवासिनां कृते नवविषयः नास्ति, किन्तु विगतवर्षेभ्यः यदा विश्वस्तरेण योगदिवसस्य आयोजनाय औपचारिक-घोषणा जाता तदा प्रभृतिः योगदिवसस्य महत्त्वविषयकाः विविधाः कार्यक्रमाः सञ्चालिताः सन्ति।
सः आह्वानं कृतवान् यत् संवादस्य माध्यमः संस्कृतभाषा एव अस्माभिः स्वीकार्या। तदीयं वक्तव्यम् आसीत् यत् -‘आसनं, प्राणायामः’ इत्येत्यादिक मेव योगः इति मतिः प्रचलिता अस्ति, किन्तु व्याकरणदृष्ट्या ‘योग’ इत्यस्य अर्थः ‘संबन्धः’ इति। योगशब्दस्य अनेके अन्येऽपि अर्थाः शस्त्र निर्दिष्टाः सन्ति। यदि वयं संस्कृतभाषां सम्यक् अध्येष्यामहे तर्हि योग शास्त्रस्य सम्यक् अध्ययनं कर्तुं समर्थाः भविष्यामः यतः योगशास्त्रं संस्कृते एव उल्लिखितम् अस्ति। समागतानां स्वागतं, परिचयं च संस्थानस्य प्रशिक्षण समन्वयकः दिव्यरञ्जनः कृतवान्। शुभारम्भः शिक्षार्थिना संदीप शुक्लेन वैदिक-मङ्गलाचरणेन कृतः। सरस्वतीवन्दनां शिक्षार्थिन्या कुमुद शर्मणा, स्वागतगीतं गायत्री-शांख्लया, गीतायाः-द्वादश-अध्यायस्य पारायणं षड्वर्षीयेण आद्विकेन, कक्षागतानुभवः धैर्यशीलेन, सुभाषितकथनं खुशीमौर्यया, एकल गीतं सुभाषपाण्डेयेन च प्रस्तुतम्। कार्यक्रमस्य सञ्चालनं प्रशिक्षिकया आस्था शुक्लया, धन्यवाद ज्ञापनं दिव्यया कृतम्। शान्तिमन्त्रः ओमदत्त- द्विवेदिना पठितः। आभासीय-अवसरे योजना-प्रभारी श्रीभगवान सिंहचौहानः,प्रशिक्षण-प्रमुखःसुधिष्ठकुमारमिश्रः,समन्वयकः धीरज मैठाणी, सुश्री राधाशर्मा, प्रशिक्षकः अमितसामवेदी, प्रशिक्षिका दीपमाला, संयोजकः प्रशिक्षकः सत्यम्मिश्रः इत्येते च समस्त-शिक्षार्थिनः च उपस्थिताः आसन्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page