योगः: वैश्विक चुनौतीनां समाधानम् ‘योगः कर्मसु कौशलम्’-भगवद्गीता

लेखिका-अलका सिंह
शोधछात्रा, विश्वविद्यालय, जगद्गुरु रामभद्राचार्य राज्य विश्वविद्यालय, चित्रकूट

चित्रकूट/प्रयागराज:। विश्वे यदा मनुष्यः विज्ञानविजये उन्नतिं प्राप्तवानस्ति, तदा अन्यस्मिन् पथि सः आत्मनः, समाजस्य च नैतिकमूल्येभ्यः द्रुतं विलीयमानः दृश्यते। तां विडम्बनाम् अस्माभिः यत्र तत्र लक्ष्यते-सामाजिक विघटनम्, मानसिक विकारः, पर्यावरण दूषणम्, शोषणम्, आर्थिक विषमता, भोगवादी प्रवृत्तयः च। विशेषतः आर्थिकविषमता तथा भोगवादप्रवृत्तयः समाजस्य स्थायित्वं, शान्तिं च बाधन्ति। एतादृशे संघर्षे योगशास्त्रं न केवलं आन्तरिकशान्तेः साधनं, अपि तु बहिर्मुखचिन्तनस्य सन्तुलनं, लोभेच्छाया: दमनं च करोतुं समर्थं अस्ति। एषः शोधपत्रः उक्ते उपविषये विस्तरेण चिन्तनं प्रददाति। योगशास्त्रस्य स्वरूपम्-योगः कीदृशः? योगश्चित्त वृत्तिनिरोधः’। योग: न केवलं व्यायामः, अपि तु चित्तनियमनम्, आत्मानुभवः, संयमः च। योगः अष्टाङ्गरूपेण पतञ्जलेन निरूपितः-यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, समाधिः च। एते अङ्गानि जीवनस्य सर्वसन्दर्भेषु अनुकरणीयानि।
योगदर्शनस्य इतिहासः-योगदर्शनं वैदिककालात् आरभ्य समुपलभ्यते। वेदेषु, उपनिषद्सु, महाभारते, गीता, सांख्य शास्त्रे च योगस्य विवेचनं दृश्यते। विशेषतः गीता योगेन कर्म, ज्ञान, भक्तेः समन्वयं प्रदर्शयति। आर्थिकविषमता इत्युक्तं सामाजिके समुदायेषु संसाधनानां, आयस्य, सम्पत्तेः च विषमवितरणम्। एका व्यक्तिः यदि लक्षाधिपति, अन्यो जीविकोपार्जनाय संघर्षं करोति, तर्हि सा विषमता भवति।
कारणानि-
१. लोभः-‘अपर्याप्तमपि धनेच्छा तृप्तिं न ददाति।’
२. संसाधनानां दुरुपयोगः-बहुभिः अल्पहस्ते सम्पदा स्रवति।
३. उपभोगकेन्द्रितनीतिः-लाभं लक्षीकृत्य कार्यविन्यासः।
४. शिक्षायाः अभावः-निम्नवर्गस्य आत्मोन्नतौ बाधाः।
५. नवउद्योगेषु असमानवृत्तिः-वेतनपद्धत्याः विषमता।
प्रभावः सामाजिकद्वेषः, असंतोषः च वर्धते। अपराधप्रवृत्तयः वर्धन्ते। मानसिकतनावः, विषादः, हिंसा च दृश्यन्ते।
भोगवादीप्रवृत्तयः-चरित्रविनाशस्य कारणम्
.१ भोगवादस्य स्वरूपम्
भोगवादः इत्यनेन तात्पर्यमस्ति-जीवने परमानन्दः उपभोगे एव’।मनुष्ययदि भौतिकवस्तुषुसुखम्अनुभवति इति चिन्तयति, तर्हि सः त्याग, संतोष, संयमादिभ्यः दूरं गच्छति।
भोगवादः आधुनिके सन्दर्भे
१. विज्ञापनानि लोभं जाग्रयन्ति। २. प्रतिस्पर्धा संस्कृतेः कारणेन अधिकं अर्जयितुं, अधिकं उपभोक्तुं इच्छा वर्धते।
३. समाजे जीवनमूल्यानां हासः दृश्यते। दुष्परिणामाः नैतिक मूल्यानां क्षयः। मानसिकरोगः, तनावः च। पर्यावरणविनाशः।
५. योगः –आर्थिकविषमतेः परिहाराय
योगेन आत्मसंयमः
योगाभ्यासेन लोभः, ईर्ष्या, द्वेषः च शम्यन्ते। योगः व्यक्तिं आत्मनः प्रति प्रत्यागतं करोति। यदा अहं आत्मनं जानामि, तदा अन्यस्य सम्पत्तिः मम लक्ष्यं न भवति।
सन्तोषस्य प्रतिष्ठा
‘सन्तोषातनुत्तमं सुखम्-हठयोगप्रदीपिका योगः मनसि सन्तोषं स्थापयति। अस्य सन्तोषस्य आधारः न बाह्यवस्तुनि, अपि तु आन्तरिकशान्तौ।
सामाजिकसन्तुलनस्य प्रेरणा
योगः केवलं स्वकल्याणाय न, अपि तु सर्वस्य हिताय प्रेरयति-‘लोकाः समस्ताः सुखिनो भवन्तु’ इति। एषा वृत्तिः समवितरणं, न्यायमूलकसंपत्ति-विन्यासं च समर्थनं करोति।
योगः-भोगवादविच्छेदनस्य साधनम्
वैराग्यम्
‘दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम्’-योगसूत्राणि १.१५ योगः मनसि वैराग्यं स्थापयति। यदा साधकः आत्मसाक्षात्कारं करोति, तदा भौतिकवस्तुषु रुचिः स्वयमेव नश्यति।
संयमः च नियमः-अष्टाङ्गयोगे यम-नियमयोः विशेषमहत्त्वं अस्ति। अहिंसा, सत्यं, अस्तेयम्, ब्रह्मचर्यम्, अपरिग्रहः च। एते यदा आचर्यन्ते, तदा भोगवृत्तिः लुप्यते।
मनःशुद्धिः च साधकवृत्तिः-प्रत्याहार, धारणा, ध्यान इत्यादयः योगाङ्गानि मनसः विशुद्धिं साधयन्ति। योगाभ्यासेन साधकः आत्मिकमूल्येषु स्थिरः भवति, सः स्वार्थे न प्रवर्तते।
सांख्य-योगदर्शनयोरन्वयः-सांख्यं तत्वमीमांसा, योगः साधनपद्धतिः। सांख्येन विवेकः, योगेन अनुभवः।
‘पुरुषः प्रकृतेः भिन्नः। सः केवलं दृष्टा।’-सांख्यकारिका
एषा विचारधारा यदा समाजे स्थिरा भवति, तदा भोगवादः, विषमता च स्वयमेव नश्यतः।
आधुनिकप्रयासाः-योगे विश्वव्यापि आन्दोलनम्
सर्वकारीपहलः- अन्ताराष्ट्रिययोगदिवस: -संयुक्तराष्ट्रे भारतस्य प्रस्तावेन प्रतिवर्षं जून २१ तमे योगदिवसः आयोज्यते। स्कूलयोग शिक्षा-भारतसरकारा विद्यालये योगशिक्षां अनिवार्यं कर्तुमन्ये प्रयत्नं करोति।
२ सामाजिकसंस्थाः
१. पतंजलि योगपीठ-स्वामी रामदेवजी।
२.आर्ट आफ लिविंग-श्री श्री रविशंकरजी।
३. ईशा फाउन्डेशन-सद्गुरुः।
एते संस्थाः योगस्य प्रचारं केवलं स्वास्थ्यनिमित्तं न, अपि तु सामाजिक-नैतिकपरिवर्तनाय च कुर्वन्ति।
. निष्कर्षः-यदा मनुष्यः योगमार्गं स्वीकरोति, तदा सः न केवलं आत्मनः जीवनं सुधारयति, अपि तु समाजस्य समत्वं, आर्थिकन्यायं च स्थापनाय सज्जो भवति। योगः लोभं विनाशयति, सन्तोषं वर्धयति, वैराग्यं स्थिरं करोति, संयमं दर्शयति। अतः, अस्मिन् भोगप्रधानयुगे, योगः एव नवयुगे चैतन्यमूलकं जीवनं स्थापनाय श्रेष्ठोपायः भवति।

  • editor

    Related Posts

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    नवदेहली। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहन भागवतः शनिवासरे अवदत् यत्, ‘भारतस्य स्वभावे संघर्षेषु प्रवृत्तिः नास्ति। देशस्य परम्परायां सर्वदा भ्रातृत्वस्य, सामूहिकसौहार्दस्य च उपरि बलं दत्तम् वर्तते। सः अवदत् यत् भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यव्याख्याभ्यः…

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    लखनऊ। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन शनिवासरे रायपुरनगरे ६० तमे अखिलभारतीय महानिदेशक/ पुलिस महानिरीक्षक सम्मेलनस्य अध्यक्षता कृता। त्रिदिवसीय सम्मेलनं भारतीय प्रबन्धन संस्थायां रायपुरे सम्पन्नम्। २८ नवम्बर् दिनाङ्के आरब्धस्य सम्मेलनस्य कृते शुक्रवासरे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 3 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 3 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 6 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page