
नवदेहली। ब्रासिलिया-नगरे जून-मासस्य ४-५ दिनाङ्केषु आयोजिते ११ तमे ब्रिक्स-संसदीय-मञ्चे भारतसहितस्य १० देशानाम् संसदसदस्याः भागं गृहीतवन्तः। भारतस्य नेतृत्वे लोकसभा अध्यक्षः ओम बिर्ला आसीत्, यस्य सह उच्चस्तरीयः संसदीय प्रतिनिधि मण्डलः आसीत्। भारत, ब्राजील, रूस, चीन, दक्षिण आप्रिâका, इरान्, यूएई, इथियोपिया, मिस्र, इन्डोनेशिया इत्यादीनां सांसदाः सम्मेलने भागं गृहीतवन्तः सम्मेलनस्य कालखण्डे अनेकपरिक्रमणानां तीव्रविमर्शानां विचाराणां च अनन्तरं कृत्रिम बुद्धिः, वैश्विक व्यापारः अर्थव्यवस्था च, अन्तरसंसदीय सहकार्यं, वैश्विक शान्तिः सुरक्षा च इत्यादिषु प्रमुख विषयेषु व्यापकसहमतिः अभवत् सम्मेलने सर्वे देशाः भारते हाले कृतस्य आतज्र्वादीनां आक्रमणस्य घोरं निन्दां कृत्वा आतज्र्वाद विरुद्धं ‘शून्यसहिष्णुता’ नीतेः सहमतिम् अकरोत्। आतज्र्वादस्य विरुद्धं भारतं दृढं स्थानं स्वीकृतवान्, आतज्र्वादीनां संस्थानां कृते आर्थिक सहायतां स्थगयितुं, गुप्तचर सूचनाः साझां कर्तुं च बलं दत्तवान्। अग्रिमः १२ तमः ब्रिक्स-संसदीय-मञ्चः भारते भविष्यति, तस्य अध्यक्षः लोकसभायाः अध्यक्षः ओम बिर्ला नियुक्तः अस्ति। अधुना भारतं ब्रिक्स-संसदानां मध्ये सहकार्यं सुदृढं कर्तुं, वैश्विक चुनौत्यस्य निवारणाय साझीकृत दृष्टिकोणं प्रवर्तयितुं च सक्रिय भूमिकां निर्वहति।