नवदेहली। श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः महिन्दाराजपक्षः गुरुवासरे कोलम्बोनगरे स्वस्य आधिकारिक निवास स्थानं रिक्तं कृतवान्। संसदेन राष्ट्रपतिशक्ति (निरसन) विधेयकं बहुमतेन पारितस्य एकदिनानन्तरं एतत् कदमः कृतः। १० सितम्बर् दिनाङ्के अनुमोदितेन विधेयकेन पूर्व राष्ट्रपतयः, तेषां विधवाः, सेवानिवृत्ताः सांसदाः च दत्ताः विशेषाधिकाराः, राज्यवित्तपोषिताः सुविधाः च समाप्ताः सन्ति। तत् किमपि संशोधनं विना पारितम्, यत्र १५१ सांसदाः पक्षे मतदानं कृतवन्तः, केवलं एकः एव विपक्षे मतदानं कृतवान्। पूर्वराष्ट्रपतिभत्ता, सुरक्षा कर्मचारिणः, सर्वकारीय वाहनानि, अन्ये राज्येन प्रदत्तानि सुविधानि च अस्मिन् कानूने हरति। सत्ताधारी राष्ट्रिय जनशक्ति सर्वकारस्य निर्वाचन पूर्व प्रतिज्ञासु एतत् विधेयकं अन्यतमम् आसीत्। सर्वोच्चन्यायालयेन विधेयकस्य अनुमोदनं कृत्वा राजपक्षस्य दलेन श्रीलज्र-जनमोर्चेन तस्य संवैधानिकतां चुनौतीं दत्त्वा विफली करणस्य प्रयासं अङ्गीकृत्य च एषः विकासः अभवत्। श्रीलज्रदेशस्य एकस्य प्रभावशालिनः परिवारस्य निवासी, दशकं यावत् देशे शासनं कृतवान् राजपक्षस्य त्याग पत्रस्य पुष्टिं कुर्वन् तस्य मीडियाप्रवक्ता पूर्वराष्ट्र पतिः टङ्गल्लेनगरे स्वपरिवारगृहं गमिष्यति इति अवदत्। वकीलः मनोज गामागे पत्रकारैः उक्तवान् यत् पूर्वराष्ट्र पतिः कानूनस्य प्रवर्तनानन्तरं २४घण्टाःअपि सर्वकारीय निवासस्थाने स्थातुं कोऽपि अभिप्रायः नास्ति।
गमागे इत्यनेन उक्तं यत् यद्यपि राजपक्षः पूर्वमेव सम्पत्तिं रिक्तं कृतवान् तथापि सर्वकारीय सम्पत्त्या सहितं निवासस्थानं औपचारिकरूपेण समर्पयितुं प्रायः एकसप्ताहं यावत् समयः स्यात्। अन्तिमेषु दिनेषु विजेरामा मवाथानगरस्य निवासस्थाने अनेके राजनेतारः विदेशीय कूटनीतिज्ञाः च राजपक्षस्य साक्षात्कारं कृतवन्तः। राजपक्षेण सह पूर्वराष्ट्र पति चन्द्रिका बन्दर नायके कुमारतुङ्गा, मैत्रीपाल सिरि सेना च स्वस्य आधिकारिक निवास स्थानानि रिक्तं कर्तव्यानि भविष्यन्ति।








