
प्रयागराज:। वार्ताहर:। प्रयागराजनगरे विद्युत्विभागस्य निजीकरणस्य विरुद्धं शुक्रवासरे नैनी जेलमार्गविद्युत्उप केन्द्रे कर्मचारिभिः विरोधः कृतः। प्रदर्शने विद्युत कर्मचारिणः, अनुबन्ध कर्मचारिणः, कनिष्ठाः अभियंताः, अभियंताः च भागं गृहीतवन्तः। सर्वे एकीकृत्य निजीकरणस्य प्रस्तावस्य विरोधं कृतवन्तः। आगामिषु काले अपि संघर्षं निरन्तरं कर्तुं कर्मचारिणः संकल्पं कृतवन्तः। कर्मचारिभिः विद्युत्निगमप्रबन्धनेन सह पूर्णतया असहयोगः करणीयः इति निर्णयः कृतः । परन्तु उपभोक्तृभिः सह पूर्णसहकार्यं निरन्तरं भविष्यति इति सः स्पष्टीकरोति। उपभोक्तृणां समस्यानां सर्वोच्च प्राथमिकता दीयते। तदनन्तरं प्रयागराजस्य जार्ज टाउन इत्यत्र सायं ५ वादनात् निजीकरण विरुद्धं प्रदर्शनमपि आयोजितम् ।