
वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं। प्रख्यातशिक्षाविद: डॉ॰ वाचस्पति मैठाणीवर्यस्य जयन्त्याः उपलक्ष्ये अन्तर्जालीय संस्कृत ज्ञान–स्पर्धायाः कृते पञ्जीकरणप्रक्रिया आरब्धा अभवत्। अन्तर्जाल पत्रपृष्ठे एव पञ्जीकरणं सम्भवम्, वरिष्ठनागरिकाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति। संस्कृतभाषायां स्वपरिचयसहितं द्विमिनट्–चतुर्मिनिट् यावत् सञ्चालितं चलच्चित्रं व्हाट्सएप्–समूहेषु प्रेषणीयम्। प्रतियोगितासु गीतायाः श्लोकपाठः, स्तोत्रगानम्, रघुवंश महाकाव्य श्लोकपाठः, सुभाषितगानम्, संस्कृतनृत्यम् च सामान्य ज्ञानस्पर्धा च आयोज्यन्ते। जुलै २५, २०२५ दिनाज्र्पर्यन्तं प्रस्तुति: समर्पणीया । फेसबुक्–दर्शकसंख्यया अपि प्राप्तव्यम् अधिकं अज्र्फलम् च अगस्त् १४, २०२५ दिनाङ्के परिणामस्यघोषणा भविष्यति। सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि प्रदीयन्ते। डॉ॰ वाचस्पतिमैठानीस्मृतिमञ्चेन अखिलभारतीय स्तरीय- अन्तर्जाल– संस्कृत–ज्ञान–स्पर्धायाः पञ्जीकरणं सम्प्रति प्रवृत्तम् अस्ति।संरक्षकमण्डलस्य सदस्यः च प्रतियोगितायाः राष्ट्रियसंयोजकः श्रीमान् कैलाशपति मैठाणी इत्यनेन निगद्यते यत्, गतवर्षवत्, अस्मिन वर्षे अपि राष्ट्रपतिपुरस्कारविभूषितः शिक्षाविद् स्वर्गीयः डॉ॰वाचस्पतिमैठाणीमहोदयस्य षट्षष्टितमजयन्त्याः उपलक्ष्ये, देववाणी संस्कृतस्य प्रचार प्रसाराय, देवसंस्कृतेः सनातन धर्मस्य च संरक्षणाय, छात्र–छात्राणां प्रतिभाविकासाय च, मञ्चेन अयं आयोजनं क्रियते। वरिष्ठनागरिकानाम् अपि अत्र सहभागिता सम्भावना इत्येतत् मञ्चस्य अपि गौरवस्य विषयः। गीता–श्लोक–पाठे ९–१४ वर्षपर्यन्तं, स्तोत्रगाने १५–२४ वर्षपर्यन्तं, रघुवंश महाकाव्य प्रथमसर्ग–श्लोक–पाठे २५–५० वर्षपर्यन्तं, सुभाषित गाने ५१ वर्षात् अधिकवयस्काःभागंगृह्णीयुः। संस्कृत–नृत्य–प्रतियोगायां ९–१८ वर्षवयस्काः बालकबालिकाः भागं गृह्णीयुः। प्रत्येकस्य प्रतिभागिनः न्यूनातिन्यूनं द्विमिनिट् यावत्, अधिकतमं चतुर्मिनिट् यावत्, स्वपरिचयसहितं चलच्चित्रं सुशोभनरूपेण व्हाट्सएप्–समूहेषु प्रेषणीयम्। पञ्चसु प्रतियोगासु अपि, न्यायाधीशैः निर्णयात् अतिरिक्तम्, प्रतिभागिनः फेसबुक्–पृष्ठे दर्शकसंख्यां वर्धयित्वा १–२० पर्यन्तं अज्रनि लब्धुंशक्नुवन्ति।फेसबुक्–दर्शकाः, लाइक्, शेयर्, टिप्पणी इत्यादय: ५ अगस्त् २०२५ पर्यन्तं गणनीयाः भविष्यन्ति।