धीरज मैथानी/बञ्जारावाला, देहरादूनम्। अगस्तमासीये नवमे दिनाङ्के संस्कृत भारती देहरादूनेन सनातनधर्ममन्दिरसमितेः सहकारेण ‘गेहे-गेहे संस्कृतम’ इति अभियानान्तर्गतस्य संस्कृतदिवसस्य आयोजनं विहितम्। कार्यक्रमस्य प्रेरणास्त्रोतः पं. कुशलानन्दमिश्रः संस्काराणां जननीं संस्कृतभाषाम् अवदत् यत् संस्कृतं संस्कृताश्रिता। मुख्यातिथिरूपेण क्षेत्रस्य विद्वान् पं. रामप्रसादसेमवालः स्वस्य गरिमामय्या उपस्थित्या कार्यक्रमं समलङ्कृतवान्। कार्यक्रमस्य परिकल्पकः संस्कृतभारत्याः जनपदमन्त्री डॉ. प्रदीपसेमवालः संस्कृतभारत्याः कार्य पद्धतिञ्च प्रबोध्य संस्कृत सप्ताहस्य महत्त्वम् अवोचत्। मुख्यातिथिना पूर्वपूर्णकालिकेन विशाल प्रसादभट्टेन भाषाशिक्षणस्य सञ्चालनं साभिनयं विधाय दैनन्दिन जीवनोपयोग्यं सम्भाषणं शिक्षितम्। सम्पर्कप्रमुखः धीरज मैठाणी कार्यक्रमस्य सञ्चालनं कृतवान्। अस्मिन् अवसरे संस्कृतभाषायाः महत्त्वं गेहे गेहे च संस्कृतप्रचारस्य आवश्यकता, भारतीयसंस्कृतेः संरक्षणे भाषायाः भूमिका इत्येतान् अंशान् आधृत्य स्वस्वचिन्तनं प्रस्तुतवन्तः। कार्यक्रमे स्थानीय महिलाः, विद्यार्थिनः, उत्साहेन सहभागिनोऽभवन्। समारोहान्तर्गते श्लोक पाठः, गीतप्रस्तुतिः, संस्कृतसम्भाषणप्रदर्शनं च आयोजितानि। कार्यक्रमस्य शुभारम्भः मङ्गलाचरणेन जातः, ततोऽनन्तरं पुष्पार्पणं, स्वागतभाषणं, मुख्य वक्तुः प्रेरणादायकम् उद्बोधनम्, आभार प्रदर्शनम् इत्यादयः क्रमशः सम्पन्नाः। अन्ते सर्वे उपस्थितजनाः ‘मम भाषा संस्कृतम’ इति संकल्पं स्वीकृत्य गेहे गेहे संस्कृतप्रसाराय दृढप्रतिज्ञाः अभवन्। अस्मिन् अवसरे कुसुममिश्रा, वन्दना सेमवालः, गङ्गा, अभिषेकः, प्रियांशुः, ऋषभः, मीरा, नारायणः, यशश्रीः च उपस्थिताः आसन्।






