
देहरादून/वार्ताहर:। उत्तराखण्डस्य मैदानी जिल्हेषु तापः स्वस्य प्रभावं दर्शयितुं आरब्धवान् अस्ति। देहरादून-हरिद्वार-उधमसिंह नगरयोः पारा ४० डिग्री सेल्सियसं पारितः अस्ति। एतादृशे सति केषुचित् पर्वतीयक्षेत्रेषु अपि च समतलजिल्हेषु जनाः आर्द्रतापेन पीडिताः सन्ति। राज्ये जूनमासस्य ११ दिनाज्र्पर्यन्तं मौसमस्य स्थितिः समाना एव भविष्यति इति मौसमविदः वदन्ति। शुष्कवायुस्य, प्रबल सूर्यप्रकाशस्य च कारणात् मैदानैः सह केषुचित् पर्वतीय क्षेत्रेषु तापमानवृद्धेः सम्भावना वर्तते। सोमवासरे राजधानीयां प्रचण्ड सूर्यप्रकाशस्य कारणेन जनानां स्थितिः दुर्गता आसीत्। देहरादूनस्य अधिकतमं तापमानं ३९ डिग्री इति ज्ञातम् यत्र सामान्यतः त्रीणि डिग्री वृद्धिः अभवत् यदा न्यूनतमं तापमानं अपि २५.३ डिग्री सेल्सियस इत्यत्र सामान्यतः प्रायः चतुः डिग्री वृद्धिः अभवत्। हरिद्वार-उधमसिंह नगरयोः अपि तापतरङ्गस्य प्रभावः प्रकटितुं आरब्धः अस्ति केषुचित् पर्वतीय जनपदेषु लघुवृष्टेः सम्भावना अपरपक्षे मौसमविभागेन राज्यस्य केषुचित् पर्वतीय क्षेत्रेषु लघुतः मध्यमपर्यन्तं वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति। उत्तरकाशी, पिठौरागढ, रुद्रप्रयाग जिल्हेषु केषुचित् क्षेत्रेषु प्रचण्ड वायुना सह हल्केन वर्षा भवितुं शक्नोति इति मौसम विभागः कथयति। राज्यस्य अन्येषु जिल्हेषु जूनमासस्य ११ दिनाज्र्पर्यन्तंमौसमःस्वच्छः भविष्यति।मौसमविज्ञानकेन्द्रस्य अनुसारं जूनमासस्य१०दिनाज्रत्परंकदापिराज्ये मानसूनः ठोकितुं शक्नोति।