उत्तराखण्डसचिवालये देवेन्द्रशास्त्रिभवने सम्पन्नः संस्कृतसंभाषणशिबिरस्य समारोपः

देहरादूननगरम्! उत्तराखण्डराज्यस्य संस्कृत शिक्षा विभागेन आयोजितं संस्कृत संभाषण शिबिरम् अद्य उत्तराखण्ड सचिवालये स्थिते देवेन्द्रशास्त्रि भवनेसम्पूर्तिं गतम्। एतत् संभाषणशिबिरम् उत्तराखण्डसंस्कृत-अकादम्या समायोजितम्। समारोपसमारम्भस्य अध्यक्षतां कुर्वन् उत्तराखण्डशासनस्य संस्कृतशिक्षासचिवः दीपककुमारगैरोला अवदत् यत् — ‘सम्माननीयेन मुख्यमन्त्रिणा संस्कृतविकासाय अनुमोदिताः नानाविधयोजनाः समग्रे प्रदेशे सक्रियतया प्रवर्तमानाः सन्ति। शीघ्रमेव त्रयोदशानां संस्कृतग्रामाणां शुभारम्भः भविष्यति। संस्कृत-अकादमी, संस्कृत-शिक्षानिदेशालयः, संस्कृत-शिक्षापरिषद्, संस्कृत-विश्वविद्यालयश्च स्वस्वस्तरेण संस्कृतप्रचाराय तत्पराः सन्ति। ते अवदन् — ‘संस्कृतं प्रदेशस्य द्वितीया राजभाषा अस्ति। अस्याः विकासाय सर्वे मिलित्वा कार्यं कर्तव्यम्।
उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो दिनेशचन्द्रशास्त्री अवदत् — ‘भारतीयसंस्कृतेः पोषिका या शास्त्रसम्पद् अस्ति, सा सर्वथा संस्कृतभाषायाः एव प्रसूतिः। अतः अस्माकं व्यवहारे संस्कृतभाषाया: समावेशः अनिवार्यः अस्ति।’ संस्कृतशिक्षानिदेशालयस्य निदेशकः डॉ आनन्दभारद्वाजः अवदत् — ‘शिक्षानीतिः २०२० अनुसारं ग्रामस्तरात् प्रादेशिकस्तरपर्यन्तं भारतीयज्ञानपरम्परायाः संवर्धनाय विविधाः योजनाः सञ्चालिताः सन्ति। आधुनिकविज्ञानदृष्ट्या निष्पादितानि बहूनि शोधप्रबन्धानि पूर्वमेव अस्मिन् संस्कृतसाहित्ये उल्लिखितानि सन्ति, यानि अधुना प्रमाणरूपेण स्वीकृतानि भवन्ति। समारम्भे संस्कृतशिक्षायाः अनु-सचिवा गीताशरद्, अनुभागाधिकारिणी संयोजिका तरुणधंजीवालः, अकादम्याः वित्ताधिकारी सत्येन्द्रकुमार डबरालः च अतिथीनां स्वागतं कृतवन्तः। कार्यक्रमस्य सञ्चालनं शोधाधिकारी डॉ. हरीशगुरुरानी अकरोत्, धन्यवादज्ञापनं प्रकाशनाधिकारिणा किशोरीलालरतूडिना विहितम्। शिबिरप्रशिक्षकौ डॉ. महेशचन्द्रमासिवालः अथ च धीरजमैठाणी प्रशस्तिपत्रेण अंगवस्त्रेण च सम्मानितौ।
अस्मिन् शिबिरे संस्कृतशिक्षा, सूचना-प्रौद्योगिकी, कार्यक्रम-क्रियान्वयनं, कार्मिक-सतर्कता, सचिवालय-प्रशासनं, पुस्तकालयः, समाज-कल्याणः, वन, युवा-कल्याणः, नवाचारः, मुख्य-सचिवालयः, ग्राम्य-विकासः, बेसिक-शिक्षा, कृषिः, गृह-विभागः, चिकित्सा, मत्स्यः, नियोजन, सहकारिता, पशुपालनं, नियमावली-प्रकोष्ठः, गढ़वाल-मण्डल-विकास-निगमः, उच्चशिक्षा, वित्तविभागः, औद्योगिक-विकासः च इत्यादिषु विभागेषु कार्यरताः ३२ विभागानां ५८ अधिकारिणः-कर्मचारिणः प्रशिक्षणं प्राप्तवन्तः। समारम्भस्य आरम्भः वैदिक-मङ्गलाचरणेन जातः। संस्कृतभाषायां प्रेरकवक्तव्यैः सांस्कृतिक प्रस्तुतिभिश्च उपस्थितजनाः प्रेरिताः। अस्मिन्नेव अवसरे विद्वज्जनाः विभिन्नविभागेभ्यः समागताः अधिकारिणः -कर्मचारिणश्च समुपस्थिताः आसन्।

  • editor

    Related Posts

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    नवदेहली। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहन भागवतः शनिवासरे अवदत् यत्, ‘भारतस्य स्वभावे संघर्षेषु प्रवृत्तिः नास्ति। देशस्य परम्परायां सर्वदा भ्रातृत्वस्य, सामूहिकसौहार्दस्य च उपरि बलं दत्तम् वर्तते। सः अवदत् यत् भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यव्याख्याभ्यः…

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    लखनऊ। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन शनिवासरे रायपुरनगरे ६० तमे अखिलभारतीय महानिदेशक/ पुलिस महानिरीक्षक सम्मेलनस्य अध्यक्षता कृता। त्रिदिवसीय सम्मेलनं भारतीय प्रबन्धन संस्थायां रायपुरे सम्पन्नम्। २८ नवम्बर् दिनाङ्के आरब्धस्य सम्मेलनस्य कृते शुक्रवासरे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 4 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 4 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 7 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page