
हरिकृष्ण शुक्ल/देहरादून। यदि भवान् ५००० रुप्यकाधिकं मूल्यं मालम् क्रीणाति तर्हि प्रथमं स्वस्य अधिकारीं सूचयितव्यम्। यदि कोऽपि गृहे भूमिं क्रीतुम् इच्छति तर्हि प्रथमं तस्य विभागप्रमुखं तस्य विषये सूचयितव्यं भविष्यति। मुख्य सचिवः अस्य उत्तराखण्ड राज्यस्य कर्मचारी आचरण नियम २०२२ इत्यस्य सख्तीपूर्वकं पालनं कर्तुं आग्रहं कृतवान् अस्ति। मुख्यसचिवः आनन्दबर्धनेन सर्वेभ्यः प्रमुख सचिवेभ्यः, सचिवेभ्यःसंभागीयआयुक्तेभ्यः,विभागअध्यक्षेभ्यः, जिलाधिकारीभ्यः पत्रं जारीकृतम् अस्ति। तत्र उक्तं यत् कोऽपि सर्वकारीयकर्मचारिणः स्वनाम्ना परिवारस्य नाम्ना वा भूमिं तदा एव क्रेतुं शक्नोति यदा सः तस्याः सूचनां स्वस्य अधिकारीं दास्यति।
चलसम्पत्त्याः विवरणं पृच्छितुं शक्नोति-तथैव टीवी, प्रिâज, एसी इत्यादीनां चलसम्पत्त्याः क्रयणपूर्वं सर्वकारीय कर्मचारिणः स्वस्य एकमासस्य वेतनात् अधिकं वा ५००० रुप्यकाणि वा यत् न्यूनं भवति तत् क्रयणपूर्वं स्वस्य अधिकारीं सूचयितुं प्रवृत्ताः भविष्यन्ति। नियुक्तिसमये प्रत्येकं पञ्चवर्षेषु च समाप्तेः अनन्तरं प्रत्येकं सर्वकारीयकर्मचारिणः स्वस्य अचल सम्पत्त्याः घोषणं कर्तव्यं भविष्यति, यस्य स्वामित्वं सः स्वयमेव अस्ति एतदपि स्पष्टं यत् तस्य अधिकारी कदापि सर्वेषां चल-अचल-सम्पत्त्याःविवरणं याचयितुम् अर्हति। विवरणे सम्पत्तिः कथं प्राप्ता इति अपि वक्तव्यं भविष्यति। इदमपि स्पष्टं कृतम् अस्ति यत् कोऽपि कर्मचारी स्वस्य अधिकारस्य विषये सूचनां विना एतादृशं क्रयणं कर्तुं न शक्नोति। एतस्य कठोर रूपेण अनुसरणं कर्तुं तेन याचितम् अस्ति।