
नवदेहली। पूर्वोत्तर सीमा रेलमार्गस्य लुमडिङ्ग-बदरपुर रेल खण्डस्य अवरुद्धतायाः कारणात् मंगलवासरे त्रिपुरा, मिजोरम, मणिपुर, दक्षिण असम इत्यादीनां रेलसेवानां द्वितीयदिनं यावत् स्थगितम् अभवत्। भारतीयराष्ट्रीयराजमार्ग प्राधिकरणेन ‘अशुद्ध’ मार्गमरम्मत कार्यस्य कारणेन पटले गादः, शिलाखण्डाः च आगताः आसन्। एनएफआर-विज्ञप्तिपत्रे उक्तं यत्, रेल दल दलानि सेवानां पुनर्स्थापनार्थं वरिष्ठाधिकारिणां पर्यवेक्षणेन युद्धपदे कार्यं कुर्वन्ति चेत् अनेकानि रेलयानानि पूर्णतया वा आंशिकरूपेण वा रद्दीकृतानि सन्ति। एनएफआर, राज्यसर्वकारः, एनएचएआइ इत्यादीनां एजेन्सीनां शीर्षाधिकारिणः स्थिति समीक्षां कृत्वा तत्कालं समाधानं ज्ञातुं सभां कृतवन्तः। एनएफआर-अनुसारं एसएमवीबी (बेङ्गलूरु)एक्स्प्रेस्, सिलचर-नई दिल्ली एक्स्प्रेस्, रङ्गिया-सिलचर एक्स्प्रेस्, गुवाहाटी-सिलचर एक्स्प्रेस्,गुवाहाटी-बदरपुर-गुवाहाटी टूरिस्ट् एक्स्प्रेस्, नई दिल्ली-गुवाहाटी पीएसके एक्स्प्रेस् तथा एसएमवीटी बेङ्गलूरु-अगरतला हम्साफर एक्स्प्रेस् भिन्न-भिन्न तिथौ रद्दाः अभवन्।