

प्रयागराज:। वार्ताहर:। इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीनयोजनायाः पूर्वा अभ्यासः (मॉकड्रिल) कृतः। अस्मिन् काले यूरिया-२ पम्पस्य ३१पी-५ ए/बी इत्यस्य सामान्यरेखायाः ३१ एच् वी १८० इत्यस्य अपस्ट्रीम फ्लैन्जतः अमोनियायाः अत्यधिकं लीकेजस्य स्थितिः निर्मितवती प्रथमं लीकेजः आरब्धः, तदनन्तरं अग्निशामक दलेन अमोनिया-वायुं नियन्त्रयितुं प्रयत्नः कृतः, उद्धारदलः च आहतानाम् चिकित्सालयं नीतवान्। तदनन्तरं स्थानीय प्रशासनेन, इफ्फको-प्रबन्धनेन, सर्वेषां विभाग प्रमुखैः च सह स्थले आपत्कालीनयोजनायाः समीक्षा सभा आयोजिता। समीक्षासभायां वरिष्ठ कार्यकारी निदेशकः (इकाईप्रमुखः) संजयकुदेशिया अवदत् यत् पूर्वाभ्यासः अस्माकं कस्यापि परिस्थितेः दुर्घटनायाः च निवारणे सहायकः भवति। अस्मिन् समयेअग्निशामकविभागस्य,गेल,स्थानीय प्रशासनस्य, अग्निशामक विभागस्य उत्तरप्रदेशस्य, सुरक्षा विभागस्य च दलाः पूर्वाभ्यासे सहकार्यं कृतवन्तः। स्वरक्षा उपनियंत्रक नीरज मिश्रा, सहायक उप नियंत्रक राकेश तिवारी, बीपीसीएल त: पवन भारती, कार्यकारी निदेशक (तकनीकी) संजय वैश्य:, वरिष्ठ महाप्रबंधक ए.पी.राजेंद्रन, महाप्रबंधक संजय भंडारी,पी.के.सिंह,डॉ.अनितामिश्रा,संयुक्त महाप्रबंधक पी.के. पटेल:, रत्नेश कुमार:, एस. सिंह, अरुण कुमार:, अरविन्द कुमार:, ए. गुप्ता, पी. के. वर्मा, आर.पी.यादव, सत्य प्रकाश:, पी.के. त्रिपाठी, संदीप गोयल:, विभागाध्यक्ष मानव संसाधन शंभू शेखर, मुख्य प्रबंधक: अग्नि एवं सुरक्षा संजीव कुमार:, इफ्फको अधिकारी संघ अध्यक्ष: अनुराग तिवारी एवं महासचिव: स्वयंसेवक प्रकाश:, इफ्फको कर्मचारी संघस्य अध्यक्ष पंकज पाण्डे एवं महासचिव: विजय कुमार यादव: उपस्थिता: आसन् ।