
नवदेहली। अविरामवृष्ट्या भूस्खलनस्य अनन्तरं अरुणाचल प्रदेशस्य अनेकजिल्हेषु मार्गसंपर्कः बाधितः अस्ति। शनिवासरे अधिकारिणः एतां सूचनां दत्तवन्तः। अधिकारिणः अवदन् यत् पश्चिमसियाङ्ग मण्डलस्य आलोतः शि-योमीमण्डलस्य मेचुखापर्यन्तं रोइङ्ग-पेने-ग्रामयोः मध्ये एकः प्रमुखः मार्गः अविराम वृष्ट्या क्षतिग्रस्तः अभवत्। शि-योमी जिल्ला सूचना तथा जनसंपर्क अधिकारी जुमेई एटे इत्यनेन उक्तं यत् क्षेत्रस्य विभिन्नस्थानेषु भूस्खलनं जातम्। सः अवदत् यत् शि-योमी-मण्डले नियोजितानां सैन्यकर्मचारिणां कृते आलो-मेचुखा-मार्गः सामरिक दृष्ट्या महत्त्वपूर्णः अस्ति। सीमा मार्ग सङ्गठनेन मार्गात् मलिनमवशेषं निष्कासयितुं श्रमिकाः नियोजिताः, यन्त्राणां साहाय्यं च गृह्यते इति अधिकारी अवदत्। अन्यः अधिकारी अवदत् यत् यदि मौसमः अनुकूलः भवति तर्हि शनिवासरस्य सायं यावत् लघुमोटर वाहनानां कृते मार्गः उद्घाटितः भविष्यति।सः अवदत् यत् सियाङ्गमण्डलस्य तारकग्रामस्य समीपे पासिघाट-पाङ्गिन्-आलो-मार्गः अपि क्षतिग्रस्तः अस्ति, येन बहवः वाहनानि अटन्ति। इटानगर नगरस्य जिला प्रशासनेन राष्ट्रियराज मार्ग-४१५इत्यस्य समीपे अवैधनिर्माणस्य विरुद्धं ध्वंसनस्य अभियानं प्रारब्धम् इति अधिकारी अवदत्।