उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरस्य आयोजनम्-संस्कृतशिक्षायाः नवमः आयामो लप्स्यते

देहरादूनम्। उत्तराखण्ड राज्यस्य संस्कृतशिक्षा विभागेन उत्तराखण्ड-संस्कृत-अकादम्या च संयुक्तरूपेण उत्तराखण्ड सचिवालये देहरादूने संस्कृत संभाषण शिविरस्य शुभारम्भः माननीय मुख्यमन्त्रिणः पुष्करसिंह धामी-महोदयस्य करकमलैः सम्पन्नः। शिविरारम्भस्य अवसरे उपस्थितेषु उत्तराखण्डराज्यस्य मन्त्रिमण्डलीयः डा. धनसिंहः रावतः, सतपालमहाराजः, गणेशदत्त जोशी, सुबोधउनियालः, मुख्यसचिवः आनन्दवर्धनः, सचिवः विनयशंकर पाण्डेय इत्यादयः अपि संस्कृतभाषायाः अभ्यासं कृतवन्तः। संस्कृतसंभाषण शिविरस्य शिक्षणस्य आरम्भः अद्य २९ मई २०२५ तः प्रारभ्य १२ जून २०२५ पर्यन्तं नियतः । शिबिरस्य समयः प्रतिदिनं प्रातः १:३० वादनतः अपराह्ण २:३० वादनपर्यन्तं निश्चितः अस्ति। संस्कृतशिक्षासचिवः दीपकगैरोलामहोदयः उद्घाटनं कुर्वन् अवदत् यत् -‘संस्कृतभाषा भारतीयभाषायाः, संस्कृतेः, सभ्यतायाः, संस्कारस्य, ज्ञानविज्ञानयोः च मूलाधारः अस्ति। एषा जनभाषा इति कर्तुं प्रयत्नः महत्वपूर्णः। एवंप्रकारैः शिविरैः समाजस्य विविधक्षेत्रेषु वर्तिनः जनाः अपि संस्कृतभाषायाः अध्ययनं कर्तुं शक्नुवन्ति।’ संस्कृत अकादम्याः सचिवः डा. वाजश्रवा आर्य-महोदयः उक्तवान्-‘संस्कृतस्य प्रचार प्रसारार्थं अकादम्या विविधकार्याणि क्रियमाणानि सन्ति। एतत् शिबिरंसंस्कृतभाषां जनभाषारूपेण स्थापनाय सशक्तः प्रयासः भविष्यति। शिबिरे शासनस्य बहूनां विभागानां अधिकारिणः, कर्मचारीणः च उत्साहेन सहभागित्वं कुर्वन्ति स्म। शिबिरस्य संचालनं प्रशिक्षणं च अकादम्याःशोधाधिकारिणा डॉ. हरीशचन्द्रगुरुरानीवर्येण कृतम्। प्रशिक्षकद्वयं डॉ. महेशचन्द्रमासीवालः, धीरजमैठाणी च सहयोगं कृतवन्तौ। अस्मिन् कार्यक्रमे शासनस्य संस्कृतशिक्षायाः अनु-सचिवः गीता शरदः, अनुभागाधिकारी तरुणधंजीवालः, सहायकनिर्देशकः डा. चण्डीप्रसाद घिल्डियालः, नोडलाधिकारी सच्चिदानन्दबौडाई च, सचिवालयस्य विविधविभागेषु कार्यरताः अधिकारिणः कर्मचरिणश्च, संस्कृत प्रेमिणश्च उपस्थिताः आसन्।

  • editor

    Related Posts

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    गोरखपुर/वार्ताहर:। शनिवासरे ग्ीाडा-संस्थायाः ३६ तमे स्थापना दिवसस्य उत्सवे मुख्यमन्त्री सभां सम्बोधयन् आसीत्। सः कार्यक्रमस्य उद्घाटनं कृत्वा तस्य ३६ तमे स्थापना दिने सर्वेभ्यः अभिनन्दनं कृतवान्। सः अवदत् यत् गिडा-संस्थायाः आरम्भात् तत्क्षणमेव…

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    हरिकृष्ण शुक्ल/देहरादून। अखिल भारतीय विद्यार्थी परिषदः (एबीवीपी) ७१ तमे राष्ट्रिय अधिवेशनस्य शुक्रवासरे उद्घाटनं कृतम्। परेड ग्राउण्ड् इत्यत्र अस्थायी सुविधायां भगवान बिरसा मुण्डानगरे जनरल् बिपिन रावत सभागारस्य मुख्यातिथिरूपेण भारतीय अन्तरिक्ष संशोधन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 4 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 3 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 6 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page