उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरस्य आयोजनम्-संस्कृतशिक्षायाः नवमः आयामो लप्स्यते

देहरादूनम्। उत्तराखण्ड राज्यस्य संस्कृतशिक्षा विभागेन उत्तराखण्ड-संस्कृत-अकादम्या च संयुक्तरूपेण उत्तराखण्ड सचिवालये देहरादूने संस्कृत संभाषण शिविरस्य शुभारम्भः माननीय मुख्यमन्त्रिणः पुष्करसिंह धामी-महोदयस्य करकमलैः सम्पन्नः। शिविरारम्भस्य अवसरे उपस्थितेषु उत्तराखण्डराज्यस्य मन्त्रिमण्डलीयः डा. धनसिंहः रावतः, सतपालमहाराजः, गणेशदत्त जोशी, सुबोधउनियालः, मुख्यसचिवः आनन्दवर्धनः, सचिवः विनयशंकर पाण्डेय इत्यादयः अपि संस्कृतभाषायाः अभ्यासं कृतवन्तः। संस्कृतसंभाषण शिविरस्य शिक्षणस्य आरम्भः अद्य २९ मई २०२५ तः प्रारभ्य १२ जून २०२५ पर्यन्तं नियतः । शिबिरस्य समयः प्रतिदिनं प्रातः १:३० वादनतः अपराह्ण २:३० वादनपर्यन्तं निश्चितः अस्ति। संस्कृतशिक्षासचिवः दीपकगैरोलामहोदयः उद्घाटनं कुर्वन् अवदत् यत् -‘संस्कृतभाषा भारतीयभाषायाः, संस्कृतेः, सभ्यतायाः, संस्कारस्य, ज्ञानविज्ञानयोः च मूलाधारः अस्ति। एषा जनभाषा इति कर्तुं प्रयत्नः महत्वपूर्णः। एवंप्रकारैः शिविरैः समाजस्य विविधक्षेत्रेषु वर्तिनः जनाः अपि संस्कृतभाषायाः अध्ययनं कर्तुं शक्नुवन्ति।’ संस्कृत अकादम्याः सचिवः डा. वाजश्रवा आर्य-महोदयः उक्तवान्-‘संस्कृतस्य प्रचार प्रसारार्थं अकादम्या विविधकार्याणि क्रियमाणानि सन्ति। एतत् शिबिरंसंस्कृतभाषां जनभाषारूपेण स्थापनाय सशक्तः प्रयासः भविष्यति। शिबिरे शासनस्य बहूनां विभागानां अधिकारिणः, कर्मचारीणः च उत्साहेन सहभागित्वं कुर्वन्ति स्म। शिबिरस्य संचालनं प्रशिक्षणं च अकादम्याःशोधाधिकारिणा डॉ. हरीशचन्द्रगुरुरानीवर्येण कृतम्। प्रशिक्षकद्वयं डॉ. महेशचन्द्रमासीवालः, धीरजमैठाणी च सहयोगं कृतवन्तौ। अस्मिन् कार्यक्रमे शासनस्य संस्कृतशिक्षायाः अनु-सचिवः गीता शरदः, अनुभागाधिकारी तरुणधंजीवालः, सहायकनिर्देशकः डा. चण्डीप्रसाद घिल्डियालः, नोडलाधिकारी सच्चिदानन्दबौडाई च, सचिवालयस्य विविधविभागेषु कार्यरताः अधिकारिणः कर्मचरिणश्च, संस्कृत प्रेमिणश्च उपस्थिताः आसन्।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 99 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 57 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 46 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 40 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 54 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 78 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page