
मुख्यमन्त्री योगी आदित्यनाथः राज्यविधायिकायाः मानसूनसत्रे राज्यस्य विकासस्य जनसमस्यानां च विषये विधायकैः उत्थापितानां विषयेषु सकारात्मक चर्चायै सर्वकारः सज्जः इति उक्तवान्। सत्रस्य आरम्भात् पूर्वं मुख्यमन्त्री विधानभवन सङ्कुलस्य पत्रकारैः सह उक्तवान् यत् राज्यस्य बजटंफरवरीमासे पारितम् अस्त्ति थाच मान सूनसत्रे राज्यस्य आवश्यकताः मनसि कृत्वा सर्वकारः सदनस्य पूरकमागधाः प्रस्तुतं करिष्यति। सः अवदत्, उत्तरप्रदेशः देशे उदयमानस्य अर्थव्यवस्थायाः रूपेण स्वस्थानं कृतवान् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन विगतसप्तवर्षेषु राज्येन प्रचण्डा ऊर्ध्वता प्राप्त सदनं सुचारुरूपेण चालयितुं विपक्षेभ्यः सहकार्यं याचन् आदित्यनाथः राज्यस्य विकासाय सर्वेषां सहकार्यं इच्छति इति उक्तवान्। सः अवदत्, आशासे यत् विपक्षस्य सदस्याः सदनस्य रचनात्मक विषयान् उत्थापयिष्यन्ति, राज्यस्य विकासेन सम्बद्धेषु विषयेषु, जनानां समस्यासु च सर्वकारस्य ध्यानं आकर्षयिष्यन्ति। तेषां समस्यानां समाधानार्थं सर्वकारः प्रतिबद्धः अस्ति। मुख्यमन्त्री उक्तवान्, सदनंएतादृशानांचर्चानां मञ्चं भवेत्, तस्य प्रतिक्रियायै सर्वकारः तत्र उपस्थितः भविष्यति। अहं सर्वेभ्यः सदस्येभ्यः आह्वानं करोमि यत् ते सत्रे रचनात्मकं योगदानं दद्युः, सर्वेषां स्वागतं च कुर्वन्तु सदनस्य रचनात्मक विमर्शाय सर्वकारः सज्जः अस्ति। सः अवदत् यत् सावनमासे यदा शिवभक्ताः काँवरयात्राम् आकर्षयन्ति तदा जनप्रतिनिधिः स्वविषयान् उत्थापयितुं अत्र उपस्थिताः भवन्ति।