बरेली! नगरे बैंकनगर-राजभाषा-कार्यान्वयन-समितेः, बरेली इत्यस्य तत्वावधाने होटल् ‘ओबराय् आनन्द’ इत्यस्य सभागृहे हिन्दीभाषाया महत्वविषये विचारगोष्ठी तथा अखिलभारतीयकविसम्मेलनं भव्यरूपेण आयोजितम्। अस्मिन् कार्यक्रमे बैंकानां, बीमाकम्पनीनां च राजभाषासम्बद्धानां अधिकारीणां कर्मचारीणां च उल्लेखनीया उपस्थिति आसीत्। कार्यक्रमस्य प्रथमसत्रे हिन्दीभाषाया महत्वविषये आयोजितायां विचारगोष्ठ्याम् मुख्यातिथिरूपेण डॉ. छबिल कुमारमेहेरः, उपनिदेशकः (राजभाषा), उपस्थितः अभवत्। तेन हिन्दीभाषाया संवैधानिकं दायित्वम्, प्रशासनिकप्रयोगः, जनभाषारूपेण च तस्याः भूमिका विस्तरेण प्रतिपादिता। अस्य सत्रस्य सञ्चालनं महिपालसिंहचौहानः, मुख्यप्रबन्धकः (राजभाषा), अञ्चलकार्यालयः, बैंक् आफ् बड़ौदा इत्यनेन कृतम्। द्वितीयसत्रे अखिलभारतीयक विसम्मेलनं सम्पन्नम्, यस्य अध्यक्षतां श्री प्रतीक् अग्निहोत्रीः, महाप्रबन्धकः, बैंक् आफ् बड़ौदा तथा समितेः अध्यक्षः, अलङ्कृतवान्। अस्मिन् अवसर? मुख्यातिथिरूपेण श्री आशुतोष् अग्निहोत्रीः, आईएएस्, तथा विशिष्टातिथिरूपेण डॉ. छबिल कुमारमेहेरः उपस्थितौ आस्ताम्। कविसम्मेलनस्य शुभारम्भः अयोध्यातः आगतेन वरिष्ठकविना रामायण धर द्विवेदीना मातुः शारदायाः वन्दनया कृतः। ततः ओजस्विनी कवयित्री शिल्पीसक्सेनया राष्ट्रभक्ति भावेन ओतप्रोतं काव्यपाठं कृत्वा श्रोतृणां मनांसि आकृष्टानि। वीररसस्य कविः हिमांशुश्रोत्रियः ‘निष्पक्ष’ इति नाम्ना विख्यातः, उत्साहवर्धकाः पङ्क्तयः पठित्वा सभागारं तालीनादेन निनादितवान्। गीतकारः कमल सक्सेनः आदौ शृङ्गाररसयुक्तान् मुक्तकान् प्रस्तुतवान्, अनन्तरं सामयिकगीतैः सामाजिक विसङ्गतीः तीक्ष्णतया निरूपितवान्।हास्यकविः उमेशत्रिगुणायतः स्वहास्यग़ज़लया श्रोतृन् अत्यन्तं प्रहर्षितवान्। शायरः अमितशुक्लः गम्भीरभावयुक्तया ग़ज़लया वातावरणं भावपूर्णं कृतवान्। पुनश्च अयोध्यातः आगतः कविः रामायणधरद्विवेदीः मार्मिकं गीतं प्रस्तूय श्रोतृणां हृदयानि स्पृष्टवान्। सम्पूर्णस्य कवि सम्मेलनस्य अत्यन्तं सुस्पष्टं सुसंयतं च सञ्चालनं कवि-शायरःहिमांशुश्रोत्रियः ‘निष्पक्ष’ इत्यनेन कृतम्। कार्यक्रमावधौ विविधबैंकानां जीवन बीमा कम्पनीनां च अधिकारी-कर्मचारिणः दीर्घकालं ताली नादैःकवीनां उत्साहवर्धनं कृतवन्तः। अस्मिन् कार्यक्रमे उपमहा प्रबन्धकः श्री श्रीपाल सिंहतोमरः, बिसंभरदत्तः,क्षेत्रीयप्रमुखः, गृह मन्त्रालयस्य राजभाषा विभागात् डॉ.छबिल कुमारमेहेरः, तथा सर्वेषां बैंकानां बीमाकम्पनीनां चवरिष्ठाधिकारीणःउपस्थिताः आसन्।






