देहरादूनस्थया उत्तराखण्ड विद्वत्सभया (पञ्जी.) संस्कृतभारतीदेहरादूनस्य कार्यकर्तृणां विशिष्टं सम्माननम्

धीरज मैथानी/सेलाकोई, देहरादूनम्। संस्कृत भाषायाः, श्रीमद्भगवद्गीतायाः अथ भारतीय सांस्कृतिक मूल्यानां संरक्षणसंवर्धनयोः उद्देश्येन उत्तराखण्ड विद्वत्सभा (पञ्जी.), देहरादूनस्थया, श्रीमायादेवी विश्वविद्यालयः, सेलाकोई, तथा संस्कृतभारती देहरादूनम् इत्येतयोः संयुक्ततया गीता-प्रतियोगिता, संस्कृत-सम्मेलनं च सम्मान-समारोहश्च भव्यतया गरिमया च आयोजितः। कार्यक्रमः अत्यन्तं प्रेरणादायकः, संस्कृत निष्ठः, सांस्कृतिक वातावरणे सम्पन्नश्च अभवत्। कार्यक्रमस्य शुभारम्भः मंचासीनानाम्-अतिथीनां स्वागतं, मंगलाचरणं, दीपप्रज्ज्वलनं च कृत्वा अभवत्। अस्मिन् अवसरे संस्कृतस्य, श्रीमद्भगवद्गीतायाः भारतीयजीवनमूल्यानां च प्रचारप्रसारे विशिष्टं बलं दत्तम्। कार्यक्रमाध्यक्षतां वहन् उत्तराखण्डविद्वत्सभायाः अध्यक्षः श्रीहर्षपति-गोदियालः अवदत् यत् ‘गीता सुगीता कर्तव्या’ इति संकल्पस्य जन-जनपर्यन्तं प्रचाराय एतादृशाः प्रतियोगिताः सम्मेलनानि च अत्यावश्यकानि सन्ति। एतेन विद्यार्थिषु युवसु च संस्कृत-गीतयोः प्रति स्वाभाविकः अनुरागः जायते। गीता-प्रतियोगितायां संस्कृतवर्गे प्रथमस्थानं हरिओम पाण्डेयः, द्वितीयस्थानं कार्तिक-देवराणी, तृतीयस्थानं अनमोल-बलूनी (परशुराम-चतुर्वेद-विद्यालयः, खुरबुड़ा, देहरादून) इत्येते प्राप्तवन्तः। आधुनिक वर्गे प्रथमस्थानम् अवीशा-अरोड़ा (यूनिवर्सल-अकैडमी, देहरादून), द्वितीय स्थानं रुचि-जोशी (अटल-उत्कर्ष-राजकीय-इण्टर-कालिज्, छिद्दरवाला), तृतीय स्थानं दिव्यांशी-सेमवालः(श्रीगुरुरामराय-विद्यालयः, बालावाला, देहरादूनम् ) इत्येते प्राप्तवन्तः। अस्याः प्रतियोगितायाःकृतेपञ्चाशताधिकाःविद्यार्थिनः पञ्जीकृताः, तेषु प्रायः नवतिशत प्रतिशतम् विद्यार्थिनः सहभागितां कृतवन्तः। श्रीमायादेवी विश्वविद्यालयस्य संस्थापकाध्यक्षः श्रीमनोहरलाल-जुयालं कर्मयोगिनम् इति निरूप्य सभया तस्य सहयोगाय कृतज्ञता प्रकटिता। विश्वविद्यालयस्य कुलपतिः डॉ आशीष-सेमवालः उपाध्यक्षश्च डॉ तृप्ति-सेमवाल-जुयालः पुरस्कार राशेः, भोजनस्य, कार्यक्रम स्थलस्य च व्यवस्थां कृत्वा उत्तराखण्डविद्वत्सभां उपकृतवन्तौ। तयोःकृते ‘धर्मार्थं वित्तं यस्य वरं तस्य निरीहता’ इति वाक्येन साधुवादः ज्ञापितः। कार्यक्रमस्य मुख्यवक्ता डॉ रामभूषण-विजल्वाणः गीतायाः संस्कृतस्य च दार्शनिकं नैतिकं व्यावहारिकं च पक्षं विषये ओजस्विनः विचारान् व्यक्तवान्, प्रतिदिनं द्वयोः श्लोकयोः स्वाध्यायं कर्तुं च आग्रहं कृतवान्। सः संस्कृत भारती देहरादूनस्य विविधाः गतिविधयः अपि विस्तरेण परिचितवान्। सभायाः सारस्वतातिथिः श्रीवेद प्रकाश शर्मा पत्रकारितामाध्यमेन संस्कृतप्रचारस्य आवश्यकतां प्रतिपादयन् कार्यक्रमं प्रथमपृष्ठयोग्यं मन्यताम् अकरोत् तथा उपस्थितेभ्यः ‘संस्कृतसंवाद’ इत्यस्य प्रतीः प्रदत्तवान्। मञ्चसञ्चालनं मुख्यसंयोजनं च उत्तराखण्ड विद्वत्सभायाः महासचिवः अजय डबरालः धीरजमैठाणी च अकुरुताम्।
प्रतियोगितायां नागेन्द्रदत्तव्यासः , डॉ नवीनजसोला, डॉ प्रदीपसेमवालः च निर्णायकत्वेन कार्यं निर्व्यूढवन्तः। अस्मिन् अवसरे यज्ञरत्न-नित्यानन्द-सेमवालस्य परतया तदीयः आचार्यः प्रशान्तसेमवालः प्रतिभागिभ्यः अङ्गवस्त्राणि प्रदत्तवान्। योगाचार्य-विपिन-जोशी कर्मयोगस्य व्याख्यां कुर्वन् समर्पणं भगवत्प्राप्तेः मार्गः इति प्रतिपादितवान्। तेन सर्वेऽपि ज्ञानानन्द महाराजस्य कथायां समाहूताः चतुर्दशे दिनांके। संस्कृत भारती देहरादूनस्य कार्यकर्तारः संगठन सेवायाः कृते प्रशस्तिपत्रैः अङ्गवस्त्रैः च सम्मानिताः। तेषु विभागसंयोजकः नागेन्द्र-व्यासः, सहविभागसंयोजकः डॉ नवीन-जसोला, जिलाध्यक्षः डॉ रामभूषण-विजल्वाणः, जनपदमन्त्री प्रदीप-सेमवालः, अल्मोड़ा-जनपदमन्त्री डॉ महेशचन्द्र-मासीवालः, गीताशिक्षणप्रमुखः योगेश-कुकरेती, सम्पर्क प्रमुखः धीरज-मैठाणी, महानगरमन्त्री माधव-पौडेलः, डोईवाला-खण्डसंयोजकः डॉ आनन्द-जोशी, रायपुर-खण्डसंयोजिका नीतिश-मैठाणी, सहखण्डसंयोजिका डॉ बीना इत्येते प्रमुखाः आसन्।
अवसरे अस्मिन् उत्तराखण्डविद्वत्सभायाः उपाध्यक्षः सत्यप्रसाद-सेमवालः, सहसचिवः मुरलीधर-सेमवालः, प्रवक्ता विपिन-डोभालः, कोषाध्यक्षः आदित्य राम-थपलियालः, संगठनसचिवः राजेश-अमोली, लेखानिरीक्षकः दीपक-अमोली, परशुराम-उनियालः, नीरज-गोदियालः, सुभाष-चमोली, सुनील-डबरालः, रामचन्द्र-ममगाईं, कबीन्द्र-सेमवालः, कृष्णानन्द-नौडियालः, पवन-बौड़ाई, विकास-भट्टः, अभिषेक-ममगाईं, कमलेश-नैनवालः, कमलेश-उनियालः, महेन्द्र-थपलियालः च सहितं अनेके विद्वांसः, शिक्षकाः, अभिभावकाः, संस्कृतानुरागिणः च उपस्थिताः आसन्।अन्ते सर्वे प्रतिभागिनः प्रमाणपत्रैः, अङ्गवस्त्रैः, ‘वदतु संस्कृतम’ नामकपुस्तकेन, ‘संस्कृत संवाद’ इत्यस्य प्रत्या च सम्मानिताः। कार्यक्रमस्य समापनं सामूहिकचित्रेण शान्तिपाठेन च अभवत्। अयं आयोजनः संस्कृतस्य श्रीमद्भगवद्गीतायाः च प्रति जनजागरणं कृत्वा ‘गीता सुगीता कर्तव्या’ इति संकल्पं सुदृढीकृतवान्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 48 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page