नवदेहली। गुरुवासरे प्रातःकाले केरलस्य कासरगोडजिल्लान्यायालयसङ्कुलं बम्बस्य धमकी प्राप्ते आतङ्के क्षिप्तम्। पुलिस-अनुसारं न्यायालयस्य आधिकारिक-ईमेल-सङ्केते प्रातः ११ वादनस्य समीपे एषा धमकी प्राप्त।परिसरं निष्कासितम् ईमेलं प्राप्य तत्क्षणमेव सम्पूर्णं न्यायालयं निष्कासितम्, सुरक्षाकारणात् कार्यं च स्थगितम्। सघन अन्वेषणकार्यक्रमः- पुलिसेन उक्तं यत् सूचनां प्राप्य बम्बनिष्कासनदलः, श्वापददलः च घटनास्थले प्रेषिताः।
एकस्य वरिष्ठस्य पुलिस-अधिकारिणः मते सम्पूर्णस्य परिसरस्य सम्यक् अन्वेषणं कृतम्, परन्तु कोऽपि शज्र्तिः वस्तु वा विस्फोटकं वा न प्राप्तम्। केरलस्य कासरगोड जिला न्यायालय सङ्कुलं गुरुवासरे प्रातः काले बमधमकी प्राप्त्य निष्कासनं कृत्वा अन्वेषणं कृतम् इति पुलिसेन उक्तम्। जिलान्यायालयस्य आधिकारिक-ईमेल-सङ्केते प्रातः ११ वादनस्य समीपे एषा धमकी प्राप्ता। एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत्, ‘तत्क्षणमेव बम्ब-दलं निरीक्षणार्थं प्रेषितम्, न्यायालयस्य परिसरं च निष्कासितम्। एतावता किमपि न प्राप्तम्।’ सः अवदत् यत् यदि धमकी मिथ्या इति ज्ञायते तर्हि प्रकरणं पञ्जीकृत्य अन्वेषणं आरभ्यत इति जिला पुलिस प्रमुखेन निर्देशः दत्तः। न्यायालयस्य परिसरं निष्कासितस्य अनन्तरं बहिः स्थितः एकः वकिलः एकं टीवी-चैनेल् इत्यस्मै अवदत् यत् ईमेल तमिलनाडुतः आगतः इति। वकीलः अवदत् यत् पुलिसैः सर्वेभ्यः न्यायालयस्य परिसरं रिक्तं कर्तुं कथितं, अन्वेषणं च प्रचलति। गत वर्षे राज्यस्य विभिन्नेषु सर्वकारीयकार्यालयेषु विमानस्थानकेषु अपि ईमेलद्वारा अनेकानि बम्ब धमकीनि प्राप्तानि, ये पश्चात् नकली एव अभवन्।






