प्रयागराज:। वार्ताहर:। त्रिवेणीनद्याः तटे आयोजितः माघमेलाश्रद्धायाः पवित्रः उत्सवः अस्ति, यत्र स्नानस्य ध्यानस्य च पार्श्वे ज्ञानस्य धारा प्रवहति। अस्य सम्बन्धस्यसुदृढीकरणाय मूलशिक्षा विभागेन विद्याकुम्भ विद्यालयस्य स्थापनाकृता अस्ति। सेक्टर् ३ इत्यस्मिन् स्वच्छता कालोनी इत्यस्य समीपे स्थितम् एतत् विद्यालयं मेले कार्यं कुर्वतां श्रमिकाणां स्वच्छता कर्मचारिणां च बालकानां शिक्षणं करिष्यति। अस्मिन् विद्यालये आङ्गनवाडी केन्द्रमपि अस्ति। मण्डलायुक्ता सौम्या अग्रवालः विद्यालयस्य उद्घाटनानन्तरं अवदत् यत्, ‘शिक्षायाः मौलिकः उद्देश्यः अस्ति यत् कोऽपि बालकःविद्यालयात्बहिःन तिष्ठति। तेभ्यः गुणवत्तापूर्ण शिक्षा प्रदातव्या मुख्यातिथि मुख्यविकास पदाधिकारिणी हर्षिका सिंहः अवदत् यत्, ‘मूलशिक्षा विभागेन प्रदत्तानां क्रीडासाधना नाम्, विज्ञानस्य, गणितस्य च किटानां माध्यमेन शैक्षिकव्यवस्था प्रभावी भवेत्।
बालकानां कृते वर्दीवितरणम्-मध्याह्नभोजनस्य समन्वयकः राजीव त्रिपाठी इत्यनेन उक्तं यत् त्रयः तः १४ वर्षाणि यावत् आयुषः कुलम् ३३३ बालकानां पहिचानं कृत्वा पञ्जीकरणं कृतम् अस्ति। बालकानां कृते वर्दी (पैन्ट्, शर्ट्, स्वेटर, जूता, मोजा, टोपी च) वितरिता। रेमन मैग्सेसे पुरस्कारविजेता संस्था एजुकेट् गर्ल्स् इत्यनेन बालकानां कृते ज्ञानस्य पेटी, लेखन सामग्री, व्यायामपुस्तकानि, कार्यपत्रकाणि, कला शिल्पानि च प्रदत्तानि, शिवनादर फाउण्डेशनेन उमाङ्गकिट्, शिक्षक शिक्षण सामग्री च प्रदत्ता। तथा व्यवस्था बीएसए अनिलकुमारः अवदत् यत् विद्याकुम्भ विद्यालय सूचना प्रौद्योगिकी द्वारा शिक्षा प्रदानार्थं स्मार्टक्लासव्यवस्था अस्ति।






