सार्थकयोगशालायोगासनक्रीडाकादम्या: भव्यम् उद्घाटनम्

कोटद्वारम्। कुलदीपमैन्दोला। सार्थकयोगशालायोगासनक्रीडाकादम्याः विधिवतं भव्यं च उद्घाटनं माननीयाविधानसभाध्यक्षया श्रीमती-ऋतुखण्डूरी-भूषणमहाभागया करकमलैः सम्पन्नम्। अस्मिन् शुभावसरे राजनीतिक्षेत्रात् आरभ्य शिक्षाजगत्, शिक्षकसंघाः, क्रीडा–योगक्षेत्रे सम्बद्धाः च अनेके गणमान्यजनाः उपस्थिताः आसन्। उद्घाटनसमारोहस्य अवसरे प्रसिद्धयोगप्रेमिभिः सह प्रायः द्विशतपञ्चाशत् (२५०) जनानां गरिमामयी उपस्थितिः कार्यक्रमं दिव्यं भव्यं च अकरोत्। अस्मिन् अवसरे राजगौरव:, नमनभटनागर: (जिलापरामर्शक:), मम युवाभारत – युवा-कल्याण-क्रीडा-मन्त्रालयः, भारतसरकारः), गुरुकुलमहाविद्यालय-कण्वाश्रमस्य पूज्यः स्वामीजी, श्री मनमोहननौटियालमहाभागः (प्रधानाचार्यः), आधुनिक भीम वैदिक गुरुकुलः, कण्वाश्रमः), अन्ताराष्ट्रिय पादकन्दुक-प्रशिक्षक: श्री सुनील रावत महाभागः तथा ‘डिस्कवर-उत्तराखण्ड२४ न्यूज ‘ इत्यस्य मुख्य सम्पादक: श्री अम्बेशपन्तमहाभागः विशिष्टातिथिरूपेण उपस्थिताः आसन्। विधानसभाध्यक्षया कथितं यत् कण्वनगरी अधुना योगकारणात् धन्या अभवत् एतादृशा: लघुबालका: बालिका: महिला: पुरुषा: शिक्षका: सामाजिका: लाभान्विता: भवन्ति। राकेशकण्डवालेन एवं सार्थककण्डवालेन च सोनमरावतद्वारा अधुना कण्वनगर्यां विश्वव्यापी योग: सार्थक: कृत:। अकादम्या: अध्यक्षया कविताकण्डवालद्वारा योग शालाया: भव्यस्वरूप: प्रदत्त: तदर्थं तस्यै च योगसपरिवाराय बहूनि वर्धापनानि।
कार्यक्रमेभारतस्वाभिमान-ट्रस्ट्-कोटद्वारतः श्री जुयालमहाभागः, ‘क्रिएटिव-पब्लिक-स्कूल’ इत्यस्य सञ्चालक: दीपकगौड़महाभागः, एम.के.वी.एन. विद्यालयस्य प्रधाना चार्या, श्री शिवानन्दलखेड़ामहाभागः, मेजर् जयवीरमहाभागः, मनमोहन चौहान महाभागः, श्री पारितोषरावतमहाभागः, पसबोला महाभागः, श्रीकान्त महाभागः, इन्द्रमोहन जखमोलामहाभागः, बागम्बरसिंहमहाभागः, भारत भूषण नेगीमहाभागः (पार्षदः, शिवपुरम्), श्री प्रशान्तकुकरेती महाभागः, कुलदीप मैन्दौला महाभागः, रोशन गोड़महाभागः तथा दीपकजदली, पंकजध्यानीमहाभागः एवं च अनेके गणमान्य नागरिकाः उपस्थिताः आसन्। अस्मिन् अवसरे सार्थकयोगशालायाः बालयोगिभिः प्रस्तुतं योगासन-प्रदर्शनं सर्वेषां मनांसि आकर्षितवान्। राष्ट्रियस्तरस्य स्वर्णपदक-विजेता बालयोगी सार्थककण्डवालः स्वस्य उत्कृष्टया योगमय्या प्रस्तुत्या दर्शकान् विस्मयमग्नान् अकरोत्। तथैव यतिका , यशवी , संस्कृतिः, अधीरा तथा वाची इत्येता: बालयोगिन्यः अपि स्व-प्रभावशालिना प्रदर्शनैः प्रचुरां करतलध्वनिं अलभन्त। एवं सार्थकयोगशालायोगासनक्रीडाकादम्याः उद्घाटनसमारोहः अत्यन्तं सफलः, स्मरणीयः च दर्शनीयश्चाभवत्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 48 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page