प्रयागराज:। वार्ताहर:। विश्व हिन्दू परिषद् तथा बजरंग दलस्य कार्यकर्तारः अद्य नगरे जन आक्रोश सभां करिष्यन्ति। वस्तुतः बाङ्गलादेशे हिन्दुजनानाम् नित्यंवधानां,मन्दिराणां,व्यापारकेन्द्राणां, महिलानां, धार्मिक टिप्पणीनां मिथ्या आरोपेण हिन्दु कार्यकर्ता दीपूदासस्य कायरता पूर्वकं क्रूरतया च हत्यायाः विरुद्धं ते क्रुद्धाः सन्ति। अस्य विरोधे इस्लामिक-आतज्र्वादस्य प्रतिमानां दहनं च जन-आक्रोश-सभा अपि भविष्यति। हनुमान मन्दिर चतुष्कं सिविल लाइन्स्इत्यत्रविहिप-बजरङ्गदलस्यकार्यकर्तारः बहुसंख्याकाएकत्रिताः भविष्यन्ति। तदनन्तरं सिविल लाइन्स् इत्यस्य सुभाष चतुष्कोणे बाङ्गलादेशस्य इस्लामिक आतज्र्वादस्य च प्रतिमाः दह्यन्ते।






