नवदेहली। विश्वस्वास्थ्य सङ्गठनेन पारम्परिकं, पूरकं, एकीकृतं च चिकित्सां समर्पितं विश्वस्य सर्वाधिक व्यापकं डिजिटलपुस्तकालयं प्रारब्धम्। अस्य नामकरणंपारम्परिक चिकित्सा वैश्विक पुस्तकालयम् इति कृतम् अस्ति। बुधवासरे नवीदिल्लीनगरे आरब्धस्य पारम्परिक चिकित्सा विषये त्रिदिवसीयसम्मेलने डब्ल्यूएचओ वैश्विक पारम्परिक चिकित्साकेन्द्रस्य निदेशिका डॉ. श्यामा कुरुविल्ला इत्यनेन पारम्परिक चिकित्सायाः परिचयः वर्धमान वैश्विक प्राथमिकतारूपेण कृतः, साक्ष्याधारित दृष्टि कोणानां स्वास्थ्यव्यवस्थासु तेषां एकीकरणस्य च उपरि बलं दत्तम्। विश्वस्वास्थ्यसंस्थायाः अनुसारं १७० तः अधिकेषु सदस्य देशेषु पारम्परिकचिकित्सा केनचित् प्रकारेण वा प्रचलति। तदपि वैज्ञानिक संशोधनेषु स्वास्थ्य नीतिषु च अस्य क्षेत्रस्यआवश्यक मान्यतायाः अभावः चिरकालात् अस्ति। एतस्य अन्तरस्य निवारणाय अज्र्ीयपुस्तकालयः प्रारब्धः, यत् आयुर्वेद, योग, पारम्परिक धात्री, लोकचिकित्सा, विश्वे प्रचलितानां अन्यदेशीय चिकित्सा व्यवस्थानां च सम्बद्धानांसर्वेषां ज्ञानानाम् एकत्री करणं, संरक्षणं, सुलभं च करिष्यति डॉ. श्यामा कुरुविल्ला इत्यनेन उक्तं यत् एषा उपक्रमः विश्वस्वास्थ्य सङ्गठनस्य वैश्विक पारम्परिक चिकित्सारणनीत्याः २०२५–२०३४ इत्यस्य अनुरूपः अस्ति। अस्य लक्ष्यं पारम्परिक चिकित्सायाः सशक्त वैज्ञानिक साक्ष्यं प्रवर्धयितुं, स्थानीय सन्दर्भानुसारं शोधं कर्तुं,आदिवासी-देशीय-ज्ञान व्यवस्थानां सम्मानं च अस्ति डब्ल्यूएचओ-संस्थायाः एकः वरिष्ठः अधिकारी स्पष्टी करोति यत् प्रधानमन्त्रिणा नरेन्द्रमोदी अगस्त २०२३ तमे वर्षे गान्धीनगरे आयोजिते जी-२० स्वास्थ्य मन्त्रिणां सत्रे उक्तवान् यत् पारम्परिकचिकित्सायाः वैश्विकज्ञानभण्डारस्य निर्माणं साझीकृतप्रयासः भवितुमर्हति। अतः भारते अस्य पुस्तकालयस्यप्रारम्भः अस्मिन् दिशि भारतस्य वर्धमानस्य भूमिकांप्रतिबिम्बयति।१५ लक्षं तः अधिकाः अभिलेखाः, १९४ देशेभ्यः सूचनाः विश्व स्वास्थ्य सङ्गठनेन ज्ञापितं यत् अस्मिन् डिजिटलमञ्चे १५ लक्षाधिकाः अभिलेखाः योजिताः सन्ति। अस्मिन् शोधलेखाः, पत्रिकाः, भिडियो, नीतिदस्तावेजाः, बहुमाध्यमसामग्री च सन्ति। तदतिरिक्तं १९४ देशानाम् कृते षट् क्षेत्रीयद्वाराः समर्पितानि पृष्ठानि च निर्मिताः सन्ति। एतेषु देशविशिष्टपृष्ठेषु नियमाः, शोध विश्लेषणं, दत्तांशकोशाः, पोड्कास्ट् इत्यादीनि सामग्रीः सन्ति। आयुर्वेद, योग, तथा पारम्परिक धाई पर विशेष ध्यान पुस्तकालयेन पारम्परिकधात्री, आयुर्वेदः, योगः, एकीकृतः ऑन्कोलॉजी, एकीकृत बालरोगः च इत्यादिषु विविधविषयेषु विशेषपृष्ठानि विकसितानि सन्ति प्रथमं विषयगतपृष्ठं अमेरिकादेशे पारम्परिक धात्री विषये केन्द्रितम् अस्ति, यत्र आप्रिâका-अमेरिका-देशस्य, देशी-धात्रीणां च अनुभवान् विडियो-दस्तावेजानां माध्यमेन गृहीतम् अस्ति डब्ल्यूएचओ-संस्थायाः अनुसारं न्यून-मध्यम-आय-देशेषु संस्थानां पारम्परिक-चिकित्सा-सम्बद्धं शोधं साहित्यं च निःशुल्कं वा न्यून-लाभं वा प्राप्स्यति इत्यनेन नूतनं पारम्परिक चिकित्सा संशोधन विश्लेषण मञ्चमपि विकसितम् अस्ति। वैश्विक सम्मेलने भारतस्य स्वास्थ्यविरासतां निवेशसमर्थनम् अपि प्राप्तवती अस्ति। भारतस्य अनेकाः प्रमुखाः नवीनताः सहितं स्वास्थ्य विरासतांनवीनता उपक्रमस्य अन्तर्गतं पारम्परिकं एकीकृतं च चिकित्साशास्त्रे २१ उच्च प्रभावयुक्तानां नवीनतानां वैश्विकमञ्चस्य कृते केन्द्रसर्वकारस्य आह्वानस्य अनन्तरं। तान् निवेशेन सह सम्बद्ध्य बृहत्प्रमाणेन कार्यान्वितुं विशेषकार्यक्रमाः अपि स्थापिताः आसन्। भारतस्य कृते एषा उपक्रमः विशेषतया महत्त्वपूर्णा अस्ति, यतः अस्मिन् देशे आयुर्वेदः, योगः, यूनानी, सिद्धः, लोकचिकित्सा इत्यादयः समृद्धाः स्वास्थ्यपरम्पराः सन्ति।






