उत्तराखण्डविद्वत्सभया वार्षिके ज्योतिषसम्मेलने २०२५ संरक्षकमनोनयनद्वारा तपसा सनातन साधनया च संबद्धा परम्परा सम्मानिता-तन्त्रकुलम्

धीरज मैथानी/देहरादूनम्। पूर्वधर्माधिकारी बद्रीनाथधा आचार्य जगदम्बाप्रसाद सती , आचार्य राधाकृष्णथपलियालः इत्येतयोः पावनसन्निधौ, उत्तराखण्ड विद्वत्सभायाः अध्यक्षेण आचार्य हर्षपति गोदियालेन समस्त विद्वत्परिषत्संरक्षकमण्डलस्य पदाधिकारिभिः च सर्वसम्मत्यानुमोदनेन, आचार्यः श्री राजेशबेंजवालः उपाख्यः राजराजेश्वरानन्द नाथः उत्तराखण्ड विद्वत्सभायाः संरक्षकत्वेन मनोनीतः। अस्मिन् गरिमामये अवसरे कार्यक्रमस्य अध्यक्षता , ज्योतिषपीठ शंकराचार्यस्य धर्माधिकारी डॉ रमेशचन्द्रपाण्डेयः अकरोत्। विशिष्ट अतिथि रूपेण सहायक निदेशकः, शिक्षा एवं संस्कृत शिक्षा विभागः, उत्तराखण्डः, डॉ चण्डीप्रसाद घिल्डियालः उपस्थितः आसीत्। कार्यक्रमस्य सफलं सञ्चालनं उत्तराखण्ड विद्वत्सभाया महासचिवः आचार्य अजयडबरालः अकरोत्। अस्मिन्नेव अवसरे पूर्वाध्यक्षः विजेन्द्रममगाईं, पूर्वमहासचिवः दिनेश भट्टः, मुकेशपन्तः, धीरजमैठाणी, राधाकृष्णमैठाणी इत्यादिभिः सह पुरोहितसमाजस्य अन्यैः विद्वद्भिश्च सह अमुना आचार्येण सार्थकी विचारोत्तेजका विशेषवार्ता विहिता। तन्त्रकुलं मन्यते यत् आचार्यः श्री राजेशबेंजवालः उपाख्यः राजराजेश्वरानन्दनाथः तपः, साधना, आत्मानुशासनं च आधृत्य दीर्घकालीनाया साधना परम्परायाः जीव न्निदर्शनं वर्तते। गुरुकृपया विधिवत् दीक्षितेन तेन कृतं दीर्घकालीनं कठोरं तपः, गायत्रीमन्त्रस्य चत्वारः पुरश्चरणाः, श्रीविद्यासाधनायां पूर्णाभिषेकः, काश्यां परमहंस गुरुदेवस्य श्रीमद् श्रीप्रकाशा नन्द नाथस्य सन्निधौ त्रिवर्षपर्यन्तम् अखण्डसाधना विहिता येन द्वात्रिंशत्काल सिद्धीनां साधनं संसाधितम्। कामाख्यापीठे अधर्त्र्यम्बक सम्प्रदायस्य (कामाख्याकौलस्य) परम्पराचार्यात् श्रीकामेश्वरानन्द नाथात् प्राप्तपूर्णाभिषेकानन्तरं सः कौलतन्त्र वेदज्योतिष शास्त्राणां समन्वयेन सनातनसाधनापरम्परां लोकहिताय प्रवर्तितवान्। तस्य तपः केवलं व्यक्तिगत सिद्ध्यर्थं न, अपि तु शास्त्रीयज्ञानस्य, पञ्चाङ्गपरम्परायाः, सनातन संस्कृतेः संरक्षणाय च समर्पितम् आसीत्। तन्त्रकुलम् उत्तराखण्ड विद्वत्सभाया एतं निर्णयं हृदयतः अभिनन्दति, तथा तपस्वीपरम्परायाः, शास्त्रीयसाधनायाः, सनातनमूल्यानां च सम्मानस्य प्रतीकं मन्यते। अन्ते, समस्तेभ्यः विद्वद्भ्यः, पदाधिकारिभ्यः, आयोजकेभ्यश्च तन्त्रकुलस्य परतः महान्तः साधुवादाः हार्दिकं चाभिनन्दनम्।

  • editor

    Related Posts

    योगी उक्तवान्-लखनऊ एआइ नगररूपेण विकसितः भविष्यति- जितिनप्रसादः अवदत्-एआइ क्षेत्रे यूपी अग्रणी भविष्यति

    लखनऊ/वार्ताहर:। सीएम योगी इत्यनेन उक्तं यत् लखनऊइत्यस्यविकासः एआइ नगररूपेण भविष्यति। एआइ अस्माकं कृते सुविधा अस्ति। अस्माकं कार्यं सुलभं करिष्यति, नूतनानि ऊर्ध्वतानि च नेष्यति। अस्माकं केवलं सावधानता आवश्यकी यत् वयं तस्य…

    उत्तराखण्डराज्ये ‘स्वामी विवेकानन्द कॉरिडोर’निर्मितः भविष्यति उत्कृष्टकार्यं प्राप्तानां युवानां सम्मानं कृत्वा राष्ट्रिययुवादिने मुख्यमंत्री धामी महोदयेन एतत् घोषितम्

    देहरादून/वार्ताहर:। स्वामी विवेकानन्दस्य जन्म दिवसस्य अवसरे राष्ट्रिय युवादिवसस्य भागरूपेण युवाकल्याण प्रान्तीय सशस्त्र हवालदार विभागेन देहरादूनस्य परेडभूमौ बहुउद्देश्यभवने पुरस्कार समारोहस्य आयोजनं कृतम्। कार्यक्रमे राज्यस्य चयनित युवानां सम्मानः कृतः ये समाजसेवा, क्रीडा,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘प्रयागराज-संगमे मकरसङ्क्रान्ति-पर्वणः पूर्वमेव श्रद्धायाः महाप्रवाहः समुत्पन्नः, लक्षाधिकाः श्रद्धालवः पुण्यसलिलैः स्नानं कृतवन्तः’

    • By editor
    • January 14, 2026
    • 2 views
    ‘प्रयागराज-संगमे मकरसङ्क्रान्ति-पर्वणः पूर्वमेव श्रद्धायाः महाप्रवाहः समुत्पन्नः, लक्षाधिकाः श्रद्धालवः पुण्यसलिलैः स्नानं कृतवन्तः’

    पीएम मोदी पोङ्गल कार्यक्रमे उक्तवान् यत्, ‘तमिल सभ्यता विश्वे प्राचीनतमा अस्ति, भविष्यस्य मार्गं दर्शयति’

    • By editor
    • January 14, 2026
    • 3 views
    पीएम मोदी पोङ्गल कार्यक्रमे उक्तवान् यत्, ‘तमिल सभ्यता विश्वे प्राचीनतमा अस्ति, भविष्यस्य मार्गं दर्शयति’

    सीएम धामी खाटिमा इत्यस्मै ३३ कोटिरूप्यकाणां उपहारं दत्तवान्, हाई टेक बसस्थानकस्य उद्घाटनं कृतवान्

    • By editor
    • January 14, 2026
    • 3 views
    सीएम धामी खाटिमा इत्यस्मै ३३ कोटिरूप्यकाणां उपहारं दत्तवान्, हाई टेक बसस्थानकस्य उद्घाटनं कृतवान्

    मकरसंक्रान्तिः-अत्यधिकशैत्ये अपि हरिद्वारे गङ्गायां श्रद्धालवः आस्थायाः निमज्जनं अकुर्वन्, देवडोल्यः च स्नानं कृतवत्यः

    • By editor
    • January 14, 2026
    • 2 views
    मकरसंक्रान्तिः-अत्यधिकशैत्ये अपि हरिद्वारे गङ्गायां श्रद्धालवः आस्थायाः निमज्जनं अकुर्वन्, देवडोल्यः च स्नानं कृतवत्यः

    योगी उक्तवान्-लखनऊ एआइ नगररूपेण विकसितः भविष्यति- जितिनप्रसादः अवदत्-एआइ क्षेत्रे यूपी अग्रणी भविष्यति

    • By editor
    • January 12, 2026
    • 3 views
    योगी उक्तवान्-लखनऊ एआइ नगररूपेण विकसितः भविष्यति- जितिनप्रसादः अवदत्-एआइ क्षेत्रे यूपी अग्रणी भविष्यति

    मोदी जर्मनी-कुलाधिपतिं मिलितवान्-प्रधानमन्त्रिणा मोदी उक्तं यत् भारतं जर्मनी च निकट साझेदारौ स्तः, भारते द्विसहस्राधिकाः जर्मनकम्पनयः सन्ति

    • By editor
    • January 12, 2026
    • 3 views
    मोदी जर्मनी-कुलाधिपतिं मिलितवान्-प्रधानमन्त्रिणा मोदी उक्तं यत् भारतं जर्मनी च निकट साझेदारौ स्तः, भारते द्विसहस्राधिकाः जर्मनकम्पनयः सन्ति

    You cannot copy content of this page