उत्तराखण्डविद्वत्सभया वार्षिके ज्योतिषसम्मेलने २०२५ संरक्षकमनोनयनद्वारा तपसा सनातन साधनया च संबद्धा परम्परा सम्मानिता-तन्त्रकुलम्

धीरज मैथानी/देहरादूनम्। पूर्वधर्माधिकारी बद्रीनाथधा आचार्य जगदम्बाप्रसाद सती , आचार्य राधाकृष्णथपलियालः इत्येतयोः पावनसन्निधौ, उत्तराखण्ड विद्वत्सभायाः अध्यक्षेण आचार्य हर्षपति गोदियालेन समस्त विद्वत्परिषत्संरक्षकमण्डलस्य पदाधिकारिभिः च सर्वसम्मत्यानुमोदनेन, आचार्यः श्री राजेशबेंजवालः उपाख्यः राजराजेश्वरानन्द नाथः उत्तराखण्ड विद्वत्सभायाः संरक्षकत्वेन मनोनीतः। अस्मिन् गरिमामये अवसरे कार्यक्रमस्य अध्यक्षता , ज्योतिषपीठ शंकराचार्यस्य धर्माधिकारी डॉ रमेशचन्द्रपाण्डेयः अकरोत्। विशिष्ट अतिथि रूपेण सहायक निदेशकः, शिक्षा एवं संस्कृत शिक्षा विभागः, उत्तराखण्डः, डॉ चण्डीप्रसाद घिल्डियालः उपस्थितः आसीत्। कार्यक्रमस्य सफलं सञ्चालनं उत्तराखण्ड विद्वत्सभाया महासचिवः आचार्य अजयडबरालः अकरोत्। अस्मिन्नेव अवसरे पूर्वाध्यक्षः विजेन्द्रममगाईं, पूर्वमहासचिवः दिनेश भट्टः, मुकेशपन्तः, धीरजमैठाणी, राधाकृष्णमैठाणी इत्यादिभिः सह पुरोहितसमाजस्य अन्यैः विद्वद्भिश्च सह अमुना आचार्येण सार्थकी विचारोत्तेजका विशेषवार्ता विहिता। तन्त्रकुलं मन्यते यत् आचार्यः श्री राजेशबेंजवालः उपाख्यः राजराजेश्वरानन्दनाथः तपः, साधना, आत्मानुशासनं च आधृत्य दीर्घकालीनाया साधना परम्परायाः जीव न्निदर्शनं वर्तते। गुरुकृपया विधिवत् दीक्षितेन तेन कृतं दीर्घकालीनं कठोरं तपः, गायत्रीमन्त्रस्य चत्वारः पुरश्चरणाः, श्रीविद्यासाधनायां पूर्णाभिषेकः, काश्यां परमहंस गुरुदेवस्य श्रीमद् श्रीप्रकाशा नन्द नाथस्य सन्निधौ त्रिवर्षपर्यन्तम् अखण्डसाधना विहिता येन द्वात्रिंशत्काल सिद्धीनां साधनं संसाधितम्। कामाख्यापीठे अधर्त्र्यम्बक सम्प्रदायस्य (कामाख्याकौलस्य) परम्पराचार्यात् श्रीकामेश्वरानन्द नाथात् प्राप्तपूर्णाभिषेकानन्तरं सः कौलतन्त्र वेदज्योतिष शास्त्राणां समन्वयेन सनातनसाधनापरम्परां लोकहिताय प्रवर्तितवान्। तस्य तपः केवलं व्यक्तिगत सिद्ध्यर्थं न, अपि तु शास्त्रीयज्ञानस्य, पञ्चाङ्गपरम्परायाः, सनातन संस्कृतेः संरक्षणाय च समर्पितम् आसीत्। तन्त्रकुलम् उत्तराखण्ड विद्वत्सभाया एतं निर्णयं हृदयतः अभिनन्दति, तथा तपस्वीपरम्परायाः, शास्त्रीयसाधनायाः, सनातनमूल्यानां च सम्मानस्य प्रतीकं मन्यते। अन्ते, समस्तेभ्यः विद्वद्भ्यः, पदाधिकारिभ्यः, आयोजकेभ्यश्च तन्त्रकुलस्य परतः महान्तः साधुवादाः हार्दिकं चाभिनन्दनम्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    मौनस्नानसमये संस्कृते: अद्भुतध्वनिः अनुभूयते स्म, सनातनमेला सह अनुशासनस्य अद्वितीयं पाठं दत्तवान्

    शम्भूनाथ त्रिपाठी/प्रयागराज:। मौनी अमावस्यायां सनातन भक्तानाम् शोभायात्रा प्रतिघण्टां अभिलेखान् भङ्गयति स्म। शनिवासर-रविवासरात् प्रयागराजः गङ्गा-यमुना-अदृश्य-सरस्वती-सङ्गमे मौनेन स्नान-जनैः परिपूर्णः आसीत्। एतेषु समीपस्थ ग्रामेभ्यः जनाः शिरसि पुटं वहन्तः आसन्, विशेषरेलयानैः, बसयानैः च महत्त्वपूर्णसङ्ख्यायाः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 95 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 54 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 44 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 38 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 49 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 71 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page