देहरादूनम्। सनातनधर्मस्य, शास्त्रीयज्योतिषस्य तथा भारतीयवैदिकपरम्पराणां संरक्षणसंवर्धनार्थं उत्तराखण्ड विद्वत् सभा पंजीकृता या संस्थया एका महत्त्वपूर्ण प्रयत्नः क्रियते। अस्याः एव परम्परायाः अन्तर्गतम् श्वः २० डिसम्बर २०२५ शनिवासरे देहरादूने वार्षिकं ज्योतिषीयं विचारविमर्श सम्मेलनं विद्वत्संगोष्ठी च आयोजिते भविष्यतः। अयं गरिमामयः कार्यक्रमः प्रातः दशवादनात् अपराह्णे द्विवादनपर्यन्तं साई गेस्ट हाउस नामके स्थले ट्रांसपोर्ट नगर मार्गे शिमला बाईपास समीपे सेवला कलां क्षेत्रे देहरादूने सम्पन्नः भविष्यति। अस्याः शास्त्रसम्मतायाः ज्योतिषीयायाः संगोष्ठ्याः मुख्यम्उद्देश्यं सनातनधर्मसम्बद्धानां व्रतपर्वणां तथा उत्सवानां तिथिषु समाजे विद्यमानस्य भ्रमस्य निराकरणं कर्तुं तथा विद्वज्जनानां सामूहिकैः प्रामाणिकैः च निर्णयैः समाजाय एकरूपं स्पष्टं शास्त्र सम्मतं मार्गदर्शनं प्रदातुं अस्ति। अस्मिन् सम्मेलने नवसंवत्सरस्य घटस्थापनस्य च तिथिनिर्णयः कर्तव्यः भविष्यति, यस्मिन् १९ मार्च अथवा २० मार्च इत्येतयोः संदर्भे शास्त्रीयः विमर्शः क्रियते। तदेवगङ्गादशहरा पर्वणि मलमासस्य स्थितौ शुद्धज्येष्ठ मासस्य मान्यता तथा तत्सम्बद्धः निर्णयः गम्भीरतया चर्चायां स्थाप्यते। उत्तराखण्ड राज्ये राहुकालस्य निर्धारणे प्रचलिताः क्षेत्रीयाः परम्पराः व्यवहारिकाः पक्षाश्च विद्वद्भिः सूक्ष्मतया विश्लेषिताः भविष्यन्ति।
गोष्ठ्याम् होलाष्टककाले क्षेत्रीयदृष्ट्या विहितानां निषिद्धानां च शुभकर्मणां विषये विचाराः प्रस्तूयन्ते।
रक्षा बन्धन समये होलिकादहनकाले च भद्रा कालस्य शास्त्रीय व्याख्या तस्य व्यावहारिक निष्कर्षाश्च गहनतया मन्थनं प्राप्स्यन्ति। शरदृतीय महालय पक्षे मघान क्षत्रे त्रयोदशीतिथौ च तर्पणवर्जन सम्बद्धेषु शास्त्रीय मतभेदेषु विचारः कृत्वा स्पष्टा दिशा निर्दिष्टुं प्रयासः क्रियते।दीपावलीपर्वेलक्ष्मीपूजनस्य योग्यकाल सम्बद्धानांविवादितानां विषयाणां समाधानं अन्विष्यते, तथा पंचदिवसीय दीपावली महोत्सवे प्रत्येकदिवसे विहितानां सविशेष कर्मणां क्रमबद्धं शास्त्रसम्मतं निर्धारणं प्रस्तुतं भविष्यति। इदं सम्मेलनं शज्र्राचार्य परम्परायाः मार्गदर्शनं प्राप्स्यति। अस्मिन् अवसरें शज्र्राचार्य ज्योतिषपीठस्य धर्माधिकारी प्रख्यातः ज्योतिषाचार्यः उत्तराखण्ड विद्वत् सभायाः संरक्षकः डॉ आचार्य रमेशचन्द्र पाण्डेयः विशेषं मार्गदर्शनं दास्यति। सः शज्र्राचार्य परम्परया अनुप्राणितः विद्वान् अस्ति,यस्य जीवनं वेदज्योतिष धर्मशास्त्राणां गहनाध्य यनाय समाजोपयोगि कर्मसु च समर्पितम् अस्ति। तस्य गरिमामयी उपस्थिति सम्मेलनस्य विशेषांदिशां प्रामाणिकतां च प्रदास्यति। अस्मिन् सम्मेलने प्रदेशात् देशस्य विभिन्न भागेभ्यः प्रतिष्ठिताः ज्योतिषाचार्याः पञ्चाङ्ग कर्तारः संस्कृत विद्वांसः धर्मप्रेमिणश्च सहभागं करिष्यन्ति। अध्यक्ष आचार्य श्री हर्षपति गोदियालस्य नेतृत्वे आयोजितायां अस्यां विद्वत्संगोष्ठ्यां धर्माधिकारी आचार्य श्री राधाकृष्ण थपलियालः ज्योतिषा चार्यः डॉ.रमेश पाण्डेयः आचार्यः श्री राजेश बेंजवालः तन्त्रकुल संस्थापकः डॉ चण्डीप्रसाद घिल्डियालः संस्कृत शिक्षायाः सहायकनिदेशकः देहरादूनस्थितः आचार्यः श्री द्वारिका कपरवाणः आचार्यः नितीश बोडाई आचार्यः श्री रामलखन गैरोला डॉ रामभूषण विजल्वाणश्च सहिताः अनेके विशिष्टाः विद्वांसः उपस्थिताः भविष्यन्ति। महीधर पञ्चाङ्गस्य वाणीभूषण पञ्चाङ्गस्य सिद्धिदात्री पञ्चाङ्गस्य कीर्ति पञ्चाङ्गस्य च प्रतिनिधयः अपि सम्मेलने सहभागं करिष्यन्ति।अस्यां गोष्ठ्यां विद्वद्भिः सामूहिकैः शास्त्रसम्मतैः विचारैः व्रतपर्वणां त्यौहाराणां च सर्वेषां प्रमुखविषयाणां विषये एकमतनिर्णयः प्रस्तूयते, येन भविष्ये तिथिसम्बद्धः कश्चन भ्रमः न भविष्यति तथा समाजाय प्रामाणिकं स्पष्टं मार्गदर्शनं लभ्यते।अस्य कार्यक्रमस्य संयोजकः आचार्यः सत्यप्रसाद सेमवालः उपाध्यक्षः अस्ति। आयोजनस्य सफलतायै अजय डबरालः महासचिवः आदित्य राम थपलियालः कोषाध्यक्षः, प्रवक्ता विपिन डोभालः, संघठनसचिवः राजेश अमोली इत्येभिः सहिताः उत्तराखण्ड विद्वत् सभायाः सर्वे पदाधिकारी सदस्याश्च सक्रियां भूमिकां निर्वहन्ति।








