
धीरज मैथानी। श्रीलालबहादुर शास्त्री-राष्ट्रिय-संस्कृत-विश्व विद्यालयस्य वाचस्पति-सभागारे द्विदिवसीयं ‘संस्कृत पत्रकार-सम्मेलनम् अथ च राष्ट्रिय-सङ्गोष्ठी’ इत्यनयोः सम्पूर्तिः संरक्षकाणां पद्मश्रिया विभूषितानां प्रो अभिराजेन्द्र मिश्र वर्याणां शास्वताध्यक्ष्ये सञ्जाता। तैः सम्राड्-पृथ्वीराज-चौहान-महम्मद-गौरी-संबद्धम् ऐतिहासिकं-वृत्तंफरिस्तोक्तं यथार्थ-प्रमाणैःसहितम्उद्धृत्यसमुदीरितंयत् पत्रकारितायाः प्रधानं कर्तव्यं सत्यस्य निष्पक्षतया प्रदर्शनं प्रकाशनं च। अद्यत्वे तु शासनपक्षनिष्ठा निन्दात्मक-प्रवृत्तिश्च सत्यं समुपेक्ष्य लक्ष्येते यत् पत्रकारितायाः नैतिकतायाश्च ह्रासस्य मुख्यभूतं कारणम्। मुख्यातिथिःप्रो. सन्तोष कुमार शुक्लः (संस्कृत-प्राच्यविद्या-संस्थानम्, जेएनयू, नवदेहली) मैक्समूलर-प्रदत्तं लन्दनस्थितं प्रश्नोत्तर- संवादम् उद्धृत्य अवदत् यत् भारतदेशे संस्कृतस्य सञ्जीविता संस्कृत-माध्यमेन प्रेषित-निमन्त्रणैः सततं प्रकाशित मानाभिः संस्कृत-पत्रिकाभिश्च प्रमाण्यते। ग्रीक-लैटिन-हिब्रू-फारसी-प्रभृतिषु भाषासु पत्रिकाः न प्रकाश्यन्ते, किन्तु संस्कृतेन भूते -वर्तमाने च काले सर्वदा प्रकाशन-परम्परा प्रवहति। अतः क्षेत्रीय-समसामयिक-राष्ट्रिय-अन्ताराष्ट्रिय-विषयविस्तारः संस्कृतपत्रकारितायाम् अस्माभिः अवश्यं योजनीयः। सारस्वतातिथिः प्रो. देवेंद्रप्रसादमिश्रः (वेदविभागाध्यक्षः) अकथयत् यत् ‘संस्कृतपत्रकारिता केवलं वार्ता-संग्रहणं न, अपि तु सामाजिक-सहभागिता तथा देवर्षेः नारदस्य सद्वृत्तेः परोपकार-परायणताया प्रतिबिम्बनं च।’ विशिष्टा तिथिः प्रो. चन्द्रभूषणझा (सेंट् स्टीफन-महाविद्यालयः, दिल्ली-विश्वविद्यालयः) स्वर्गीयेण प्रो. रमाकांतशुक्लेन प्रणीतं ‘भाति मे भारतम्’इति गीतम् उद्धृत्य अवदत् यत् मया वैदेशिकच्छात्रेभ्यः अध्यापनार्थं प्रयुक्तम्, येन संस्कृतस्य वैश्विकप्रसिद्धिः नूनमेव चरितार्था जायते यत् कथमेका रचना एतावती लोकप्रिया भवितुमर्हति। एतदुद्धरणमेव अस्मभ्यं प्रेरणाप्रदम् अथ च अयोध्यायां समायोजिताद्ध्वजारोहण-समारोहात् पूर्वं ‘समाजः कोविदार्-वृक्ष’ इति विषयः अत्यल्पं परिचितः आसीत्, किन्तु अनन्तरं संस्कृतविद्वांसः सामाजिक-माध्यमैः तद्विष यं काव्य-शास्त्रप्रमाणादिभिः प्रसारितवन्तः।
कार्यक्रमस्य सूत्रधारः वेदप्रकाशशर्मा, प्रबंध सम्पादकः (संस्कृत संवादः, पाक्षिकः), समागतातिथीन् माल्यार्पणेन उत्तरीयप्रदाननेन पुष्पाधान्या च सम्मानितवान्। वाचिक स्वागतं मञ्जुशर्मणा संस्कृतसंवादस्य सम्पादिकया विहितम्। सत्रस्य सञ्चालनं संस्कृत पत्रकारितायां कृतभूरि परिश्रमो भाषाविचक्षणो डॉ. ऋषिराज पाठकोऽकरोत्। अतिथिभिः संस्कृत पत्रकारितायाः वर्तमानरूपं, सामाजिकोपयोगिता, शिक्षण संस्थासु नवोन्मेषाः, राष्ट्रिय-अन्ताराष्ट्रिय-परिप्रेक्ष्ये संभावनाश्च निरूपिताः। सम्पादकमण्डलस्य अनवरत-प्रयत्नाः सर्वैरपि प्रशंसिताः। कार्यक्रमे व्याकरण विभागाध्यक्षः प्रो. रामसलाहीद्विवेदी, प्रो. सुजातात्रिपाठी, शिक्षाशास्त्रविभागीयो डॉ. परमेशमिश्रः, श्रीधीरजमैठाणी, तत्तद्विभागीयाः प्राध्यापकाः, छात्राः, पत्रकाराः, विद्वांसः, शोधार्थिनश्च उपस्थिताः। छात्र-शोधार्थि-विद्वत्प्रभृति भिर्जनैः अत्र सक्रिय-सहभागिता निर्व्यूढा। द्विदिवसात्मिके सम्मेलने सम्पन्नानां पञ्चसत्राणां सारांशः भविष्यम् अभिलक्ष्य चर्चितः। अवसाने च गृहीतभागेभ्यः समेभ्यो वितीर्णानि सहभागिताप्रमाणपत्राणि। तावन्नूनं सम्मेलनमिदं संस्कृतपत्रकारितायै व्यापकतादायकं समुन्नतताप्रदं च भविष्यतीति भावितम्।
द्विदिवसीया राष्ट्रियसंगोष्ठी अथ च संस्कृत पत्रकार सम्मेलनम् इत्यनयोः अङ्गभूते शोधार्थिनोऽगृह्णन् भागं शोधपत्रवाचने

२०२५ तमे वर्षे दिसम्बरमासस्य चतुर्थे दिनाङ्के गुरुवासरे आरब्धस्य सत्रस्य अध्यक्षतां प्रो सुन्दरनारायण झाः (वेदविभागः श्री लालबहादुरशास्त्रीसंस्कृतविद्यापीठः) कृतवान्। सञ्चालनं डॉ विजयगुप्ता इत्यनेन निर्व्यूढम्। सम्मेलनस्य संरक्षकः शाश्वताध्यक्षः च पद्मश्री प्रो अभिराजराजेन्द्रमिश्रः संदेशवाहक परम्परायां वाक्तत्त्वम् इति विषयम् आलंब्य उद्बोधनं दत्तवान् यद् यदि वाक्तत्त्वं न कदाचिन्न अभविष्यत्तदा संसारोऽयम् अंधकारे लीनः स्यात्। अस्य प्रासंगिकता कस्यापि युगे न्यूना न भवति। संस्कृतस्य कालजयीग्रन्थपरम्परा तथा मानवता याश्सञ्चार गते इतिहासे वाण्याः महत्त्वं च निर्दिश्य तेन भाषणस्य शास्त्रीयपरम्पराविषये आधुनिकसंचारजगति च तदीया उपयुक्तताविषये च विचारः प्रस्तुतः। अस्मिन् सत्रे राष्ट्रस्य विविध प्रदेशेभ्यः आगताः विद्वांसः शोधार्थिनः स्व स्वशोधपत्राणि प्रस्तुतवन्तः। शोधपत्रेषु समकालीनसंस्कृत पत्रकारितायाः परिस्थितयः भाषा अभिव्यक्तिशैली समाचारलेखनपरम्परा सञ्जालीययुगे संस्कृतमाध्यमस्य प्रासंगिकता संचारक्षेत्रे तदीयं नवोन्मेषरूपम् इत्येतान् विविधान् विषयान् व्यापकतया चर्चितवन्तः।
प्रमुखाः शोधप्रस्तुतयः—(१) अर्चाजैनः शिला लेखात् सामाजिक माध्यमपर्यन्तं संचारपरम्परायाः प्रवाहः योगदानम् च, (२) धीरजमैठाणी अग्निपुराण स्थित सिद्ध रूप प्रकरणस्य व्याकरणशास्त्रीयपरिशीलनम्। (३) डॉ प्रदीपकुमारकेसरी सनातनधर्मः संस्कृतपत्रकारिता च, (४) शुभम्भारद्वाजः संस्कृत पत्रकारितायाः भूतं वर्तमानं भविष्यञ्च, (५) नीतीशशर्मा आनन्दवृंदावन चम्पूकाव्य रूपवैशिष्ट्यं चेति सत्रस्य आरम्भं रामांशशर्मणा मंगलाचरणेन आयोजकैरतिथीनां परम्परागत स्वागत पूर्वकं कृतम्। सत्रस्य धन्यवाद ज्ञापनं प्रबन्धसंपादकः श्रीवेद प्रकाश शर्मा अकरोत्। तेनोक्तं यत् सम्मेलनस्य मूलम् उद्देश्यं संस्कृतपत्रकारितायाः नूतनदिङ्निर्देशो युवभ्यः शोधार्थिभ्यश्च मञ्चं प्रदाय संस्कृतभाषायाः सामाजिक विमर्शेषु अधिकप्रभावपूर्णस्थानस्य निर्माणं च अस्ति। तन्मते सञ्जालीययुगे संस्कृतपत्रकारितायाः संभावनाः अत्यन्तं व्यापकाः सन्ति।
एवं विधानि सम्मेलनानि तद्वि षयक संवादश्च एतत् चर्चितं सर्वमपि सुदृढीकरोति। अस्मिन् सत्रे विशाल संख्यायां विद्यार्थिनः शोधार्थिनः आचार्याः पत्रकाराः संस्कृत प्रेमिणश्च उपस्थिताः। सर्वे अपि अमन्यन्त यत् एवंप्रकारकाः शैक्षणिक गतिविधयो न केवलं शोधप्रवृत्तिं प्रोत्साहयन्ति अपितु पत्रकारितायां नवस्फूर्तिम् आविष्कुर्वन्ति।






