उत्तराखण्डसंस्कृताकादम्या समायोजितस्य सप्तदश राज्यस्तरीयसंस्कृतस्पर्धा महोत्सवस्य पञ्चविंशत्युत्तरद्विसहस्रतमस्य भव्ये ऐतिहासिके च समापनसमारोहे पौडीजनपदस्य संयोजकः श्रीमान् गौड रौशनलालः संस्कृतभाषायाः प्रचाराय द्वादशवर्षेभ्यः निरन्तरं कृत निष्ठानिःस्वार्थसेवाभ्यः राज्यस्य प्रथमेन संस्कृतसमाराधकः सम्मानेन समलङ्कृतः अयं विशिष्टः पुरस्कारः संस्कृतभाषायाः प्रचारे प्रसारे संरक्षणे नूतनप्रयोगाणां सृजनात्मककार्यकलापानां तथा चोत्कृष्टशैक्षिकनेतृत्वस्य अनुपमयोगदानार्थं तस्मै समर्पितः । येन योगदानेन सम्पूर्णे प्रान्ते संस्कृतसंवर्धनस्य नूतना प्रेरणा सञ्चारिता सम्मानमिदम् उत्तराखण्डसंस्कृताकादम्याः माननीयसचिवैः प्राध्यापकैः पन्तमहोजकिशोरैः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिभिः प्राध्यापकैः शास्त्रिदिनेशमहोदयैः तथा च संस्कृत निदेशालयस्य निदेशिकया कञ्चनादेवराडी महोदयाभिश्च स्वकरकमलैः प्रदत्तः कार्यक्रमेऽस्मिन् शोधाधिकारी हरीशगुरुरानी वित्ताधिकारी श्रीसतेन्द्रडबरालाः प्रकाशानाधिकारी श्रीकिशोरीलाल रतूडी सहायनिदेशक: बाजश्रवा आर्य: , चण्डीप्रसादघिल्डियाल: पौडीजनपदस्य सहायनिदेशक: श्रीमनोजसेमल्टी महोदय: कुलसचिव: दिनेशकुमारा: सहैव प्रदेशस्य सर्वे जनपद संयोजका: सह संयोजका: विशिष्ट गणमान्याश्च समुपस्थिताः आसन् ?
हरिद्वारे प्रवृत्तेऽस्मिन् द्विदिवसीये राज्यस्तरीये संस्कृत महोत्सवे उत्तराखण्डस्य विविधजनपदेभ्यः समागताः शिक्षकप्रतिनिधयः मार्गदर्शकाः आचार्याः सहस्रमिताः छात्राश्च महोत्साहेन ऊर्जया च स्वकीय प्रतिभायाः विराट्प्रदर्शनं चक्रुः विविध संस्कृताभिनव प्रस्तुतिभिः शास्त्रीयवाचनैः नाट्यनृत्यगीतादिभिः शास्त्रार्थ चर्चाभिश्च सम्पूर्णः परिसरः संस्कृतवाङ्मयस्य भारतीय ज्ञान परम्परायाश्च सौरभ्येण सुरभितोऽभवत् अतिथिगणैः संस्कृतभाषा राष्ट्रस्य सांस्कृतिक पुनरुत्थानस्य मूलाधारः इति उद्घोष्य उत्तराखण्डसंस्कृताकादम्याः अथकप्रयासाः भूरिशः श्लाघिताः ? सर्वान् विजेतन् प्रतिभागिनः आचार्यांश्च ते भविष्यत्कामनया अन्व गृह्णन् सम्मानमिदं न केवलं गौडरौशनलालस्य अनवरत परिश्रमस्य फलं अपितु सर्वेषां संस्कृतसेवकानां गौरवाय कल्पते ?






