कुलदीप मंडोला/देहरादून। देवभूमौ उत्तराखण्डे गिरां देव्याः सरस्वत्याः कश्चन महानुत्सवः समपद्यत्। उत्तराखण्ड संस्कृताकादम्याः पक्षतः सप्तदशराज्य स्तरीय संस्कृत महोत्सवस्यायोजनं कृतम्। यत्र विभिन्न विद्यालयेभ्यः समागतैश्छात्रैः स्वस्व प्रज्ञाप्रकर्षः प्रदर्शितः। यथा शास्त्रेषु पठ्यते प्रज्ञा नवोनवोन्मेष शालिनी प्रतिभा मतेति तदेव तत्र साक्षात्कृतम् प्रथमं कनिष्ठवर्गे विविध स्पर्धानां परिणामवृत्तम् इत्थं वर्तते संस्कृतनाटक स्पर्धायां खटीमानगरस्थो डायनेस्टी-माडर्न-विद्यालयः प्रथमं स्थानं लेभे। मुनिकीरेतिस्थः श्रीदर्शनसंस्कृतमहाविद्यालयो द्वितीयस्थानमलञ्चकार तथा च कोटपौडी प्रदेशीयोब्रिगेडियर-विद्याधर-जुयाल-संस्कृत विद्यालय स्तृतीय स्थानं प्राप्तवान्। समूहगान प्रतियोगितायां खटीमानगरस्था डायनेस्टी-अकादमी प्रथमा अभवत्। आचार्यकुलं द्वितीयं तथा टनकपुर स्थो विजय-पब्लिक-विद्यालयस्तृतीयः समतिष्ठत। संस्कृत समूह नृत्यस्पर्धायामपि खटीमास्थया डायनेस्टी-अकादम्या एव जयश्रीः प्रथमा ववृत। देवलधारस्थो राजीव-नवोदय-विद्यालयो द्वितीयं स्थानम् आप्नोत् रुडकीनगरस्था आर्यकन्या-इण्टर-पाठशाला च तृतीये स्थाने स्थिता। वादविवादस्पर्धायां वाग्मिनां युद्धे आचार्यकुलस्य प्रथमः क्रमः आसीत्। श्रीमद्दयानन्द ज्योतिर्मठ गुरुकुलो द्वितीयः श्रीदर्शन संस्कृत महाविद्यालयश्च तृतीयः क्रमश: आसन्। आशुभाषणे यत्र मतिः सत्वरं स्फुरति तत्र मुनिकी रेतिस्थेन श्रीदर्शनसंस्कृतमहाविद्यालयेन प्रथमं स्थानं जितम्। श्रीमद्दयानन्दार्षज्योतिर्मठगुरुकुलेन द्वितीयम् आचार्यकुलपतञ्जलियोगपीठेनापि तृतीयं स्थानं भूषितम्। श्लोकोच्चारणस्य माधुर्यपूर्णस्पर्धायां डायनेस्टी-माडर्न-अकादमी प्रथमा हरिद्वारस्थो ब्रह्मचारि रामकृष्ण संस्कृत विद्यालयो द्वितीयः रुद्र प्रयागस्थः संस्कृतमहाविद्यालयश्च तृतीयः घोषितः?
अथ वरिष्ठ वर्गस्य परिणामघोषणा प्रस्तूयते संस्कृत नाटके कोटपौडीस्थेन जुयालसंस्कृतविद्यालयेन प्रथमं स्थानमधिगतम्। पटेल नगरस्थेन राजकीय-इण्टर-महाविद्यालयेन द्वितीयं मुनिकीरेतिस्थेन श्रीदर्शन संस्कृत विद्यालयेन च तृतीयं स्थानं स्वीकृतम्। समूहगाने खटीमास्थया डायनेस्टी-अकादम्या प्रथमः केवीएम-विद्यालयेन द्वितीयं दशौलीस्थेन विद्यालय मन्दिरेण च तृतीयं स्थानं प्राप्तम् समूहनृत्ये रुडकीस्था आर्यकन्यापाठशाला प्रथमा खटीमास्था डायनेस्टी-अकादमी द्वितीया गोपेश्वरस्था राजकीय बालिका-इण्टर-पाठशाला च तृतीया अभवत्। वादविवादे पतलोटक्षेत्रीयः पीएम-श्री-जीआईसी-विद्यालयः प्रथमःगुरुकुल विश्वविद्यालयो द्वितीयः मुनिकी रेतिस्थः श्रीदर्शन संस्कृत महाविद्यालयश्च तृतीयः आसीत्। आशुभाषणे ओखलकाण्डास्थो जीआईसी-विद्यालयः प्रथमःपिथौरागढस्थो लक्ष्मणसिंह महरपरिसरो द्वितीयः मुनिकीरेतिस्थःश्रीदर्शनसंस्कृत महाविद्यालयश्चतृतीयस्थानभाक्सञ्जातः श्लोकोच्चारणे डायनेस्टी-अकादम्या प्रथमं कोटद्वार-पीजी-महाविद्यालयेन द्वितीयं मल्लीमानिला स्थेन संस्कृत विद्यालयेन च तृतीयं स्थानं लब्धम् ?
कार्यक्रमस्यास्य समापने विजेतृभ्यः छात्रेभ्यः पुरस्कार वितरणं समभूत्। तदा चौहानादेशकुमारः उत्तराखण्ड संस्कृतविश्वविद्यालयस्य कुलसचिवः कुमारदिनेशः संस्कृतशिक्षानिदेशिका देवराडीकञ्चना तथा च अकादम्याः सचिवः प्राध्यापकः पन्तमहनीयो मनोज किशोरश्चेति महानुभावाः विजेतृप्रतिभागिनः सम्मानितवन्तः। विशिष्टसंस्कृतसेवार्थं तथा द्वादश वर्षेभ्यः अकादमीं प्रति अनवरतं साहाय्यं प्रदानाय च श्री गौडरोशनलालमहोदयःसंस्कृत समाराधक सम्मानेन राज्यस्तरेअकादमीद्वारा अतिथिभिश्च समलङ् कृतः। अस्यकार्यक्रमस्य अध्यक्षता उत्तराखण्ड संस्कृत विश्वविद्यालयस्य कुलपतिभिः प्राध्यापक शास्त्रि दिनेशचन्द्रमहोदयैः व्यधायि। अकादम्याः वित्त कोषाधिकारिणा डबराल सतेन्द्र प्रसादेन सर्वेषाम् अतिथीनामाभारोज्ञापितः।समग्रस्य कार्यक्रमस्य कुशलं सञ्चालनं राज्यसंयोजकेन डोक्टर्-गुरुराणीहरिश्चन्द्रेण कृतम्।






