प्रयागराज:। सोमवासरे प्रयागराजस्य बहरियाक्षेत्रे कर्णैपुर विपण्ये अतिक्रमणं दूरीकर्तुं गतं राजस्वदलं शिलाभिः प्रहारं कृत्वा अग्निप्रहारः कृतः। अस्मिन् आक्रमणे नायब तहसीलदार राजीव शुक्ला गम्भीररूपेण घातितः अभवत्, सः नगरस्य एकस्मिन् नर्सिंगहोमे प्रवेशितः अस्ति। बुधवासरे अस्मिन् प्रकरणे एकदर्जनं आरोपिणः पुलिसैः गृहीताः। समाचारानुसारं जुग्नीडीह-नगरस्य निवासी मोहम्मदजुबेर् कर्णैपुरस्य शज्र्रलाल बिन्दात् पट्टे भूमिं क्रीतवान् आसीत्। सः अतिक्रमणं दूरीकर्तुं एसडीएम फुलपुरस्य न्यायालये मुकदमा दाखिलवान्। न्यायालयस्य आदेशेन राजस्वदलः नायब तहसीलदारः, पुलिस च सोमवासरे घटनास्थले आगताः। दलस्य आगमनमात्रेण केचन जनाः विरोधं कर्तुं आरब्ध वन्तः। स्थितिः शीघ्रमेव वर्धिता, जनसमूहः शिलापातं कर्तुं आरब्धवान्, येन नायबतहसीलदारः क्षतिग्रस्तः अभवत्। तावत् विवादितभूमौ निर्मितशालासु कश्चन अग्निम् अयच्छत्। घटनायाः सूचनां प्राप्य एसीपी फुलपुर विवेक यादवः घटनास्थले आगत्य स्थितिं नियन्त्रणं कृतवान्। रात्रौ एव पुलिसैः अनेकस्थानेषु आक्रमणं कृत्वा १२ शज्र्तिाः निरुद्धाः, तेषां प्रश्नोत्तरं च प्रचलति। घटनास्थलस्य भिडियोदृश्यानां आधारेण अन्येषां दङ्गानां पहिचानः क्रियते। सर्वेषां अभियुक्तानां विरुद्धं कठोरकार्यवाही भविष्यति इति पुलिस कथयति।







