उत्तराखण्डप्रान्तस्य प्रतिनिधयः पारम्परिकवेशभूषां धृत्वा ब्रह्मकमलचिह्नितां विशिष्टां शीर्षावरणिकां धृत्वा यदा सभास्थलं प्रविशन् तदा सर्वेषां कार्यकर्त?णां दृष्टिः तेषु निलग्ना। अस्य सांस्कृतिक प्रदर्शनस्य माध्यमेन देवभूमेः शास्त्रीयगरिमा च लोक संस्कृतिश्च अद्भुतं समन्वयः प्रदर्शितौ। उत्तराखण्डराज्यस्य पञ्चपञ्चाशत् प्रतिनिधयः परस्परं राज्यस्थापनादिनं अभिनन्द्य महतो राज्यआन्दोलनस्य बलिदानिनः श्रद्धया स्मृत्वा तेषां कृते नमनं कृतवन्तः। अस्मिन् सन्दर्भे ते बद्रीनाथं केदारनाथं गङ्गोत्रीं यमुनोत्रीं हेमकुण्डसाहिबं चेत्येतानि तीर्थस्थानानि भावपूर्वकं स्मृतवन्तः अधिवेशने उपस्थितानां संस्कृतभारत्याः त्रिसहस्राधिकानां कार्य कर्तणां मध्ये उत्तराखण्डप्रतिनिधीनां सा सांस्कृतिकच्छविः प्रमुख माकर्षणं जाता। ‘जयतु देवभूमिः जयतु देववाणी’ इति घोषः सभामण्डपे प्रतिध्वनितः, यः अधिवेशनस्थलं ऐक्यभावेन च सांस्कृतिक गौरवेन च पूरितवान्। एतदायोजनं यत्र एकस्मिन् पार्श्वे उत्तराखण्डस्य संघर्षपूर्णइतिहासस्य च आन्दोलनस्मृतिनां च पुनर्जीवनं कृतम्, तत्र अपरस्मिन् पार्श्वे तदीयराज्यस्य शास्त्रीयः आध्यात्मिकः च सांस्कृतिकपरिचयः राष्ट्रियमञ्चे प्रकाशितः। तत्र डॉआनन्दभारद्वाजः,मनीषजुगरानः,गिरीशतिवारी,अरविंद नारायण मिश्रः, वेदव्रतो, गौरवशास्त्री, नागेन्द्रव्यासः डॉ रामभूषण बिजल्वाणः, डॉ प्रदीपसेमवालः, धीरजमैठाणी, नीतीशमैठाणी, राजेन्द्र प्रसाद नौटियालः, राकेशसेमवालः, महेशदत्त उनियालः, भुवनेश्वरीदेवी, विवेकव्यासः चेत्यादिप्रभृतयः सविशेषं समुपस्थिताः।






