दीनदयालशुक्ल:। संस्कृतभारत्याः अखिलभारतीयम् अधिवेशनं कोयम्बत्तूरे समारब्धम्। कोयम्बत्तूरे शुक्रवासरात् प्रारभ्यमाणं द्विसहस्र पञ्चविंशतितम कृष्टाब्दीयम् अखिलभारतीयम् अधिवेशनं भारतस्य आत्मनः आस्थायाः आचारस्य च अद्वितीय सङ्गमः सञ्जायते। एषः तादृशः महाकुम्भो यत्र संस्कृतवाणी गुञ्जति भारतस्य शाश्वत संस्कारश्च प्रतीयते। संस्कृत भारत्या आयोजित मिदं त्रिदिवसीयम् अधिवेशनं नवम्बरमासस्य सप्तदिनाज्रत् नवदिनाज्र् पर्यन्तं कोयम्बत्तूर पुरस्य एट्टिमडई स्थित-अमृताविश्वविद्यापीठमे भव्यरूपेण समारब्धम्। अस्मिन् अधिवेशने समग्रदेशात् संस्कृतानुरागिणः विद्वांसः शिक्षाविदः संस्कृतिसंरक्षकाश्च भागं गृह्णन्ति। अस्य उद्घाटनसत्रे अविनाशि क्षेत्रस्य तिरुप्पुक्कोजियूर-आधीनस्य कामाक्षिदासस्वामी मातामृता नन्दमयी मठस्य तपस्या मृतानन्द पुरीस्वामी राष्ट्रिय स्वयं सेवक सङ्घस्य सरकार्यवाहः होस बलेदत्तात्रेयश्च आशीर्वचनानि प्राददुः। संस्कृतभारत्याः अखिलभारतीय-अध्यक्षः प्रो॰मिश्र गोपबन्धुः अस्य अध्यक्षताम् अकरोत्। तत्र विशिष्टातिथि रूपेण मद्राससंस्कृतमहाविद्यालयस्य डो॰द्रविडशास्त्रि मणिः भाग्य नगरस्थ भारतीयप्रौद्योगिकी संस्थानस्य निदेशकः प्रो॰बी॰एस्॰मूर्तिश्च उपस्थितौ आस्ताम्। अखिल भारतीय महामन्त्रिणा भट्टसत्यनारायणेन प्रास्ताविकम् उद्बोधनं प्रदत्तम्। अवसरेऽस्मिन् भारतीयज्ञान परम्पराम् आश्रिता एका प्रदर्शनी अपि नवम्बरमासस्य षड्दिनाज्रत् नवदिनाज्र्पर्यन्तम् आयोजिता वर्तते यस्यां वेद-उपनिषद्-आयुर्वेद-गणित-वास्तु-नाट्यशास्त्रसदृशानां विधानां दर्शनं भविष्यति। अधिवेशने संस्कृतशिक्षणस्य नवीनाः पद्धतयः आधुनिकतन्त्रज्ञानेन सह समन्वयः युवसु भाषां प्रति आकर्षणं तथा च वेदतः विज्ञानपर्यन्तम् संस्कृतेश्च समरसतापर्यन्तम् इत्याख्येषु विषयेषु विशेषज्ञ सत्राणि भविष्यन्ति। सांस्कृतिकसन्ध्यासु वैदिकनृत्य-सङ्गीत-नाट्यरूपान्तरणैः भारतीयजीवनमूल्यानां प्रदर्शनं क्रियते। कानपुरप्रान्तस्य कार्यकर्त?णां दायित्वेषु केचन परिवर्तनाः कृताः यत्र डो॰त्रिवेदीरत्नेशः कानपुरप्रान्तस्य प्रान्तमन्त्रिरूपेण घोषितः अभवत्। संस्कृतभारत्याः इदम् अधिवेशनं भारतीयसंस्कृतेः मूलैः सह पुनः सम्बन्धनस्य एकः प्रयासः अस्ति यो भारतस्य गौरवान्वितां परम्परां ज्ञानं वैदिकचिन्तनं च आधुनिकयुगचेतनया सह योजयितुं सन्देशं ददाति। अयम् उत्सवः न केवलं भाषागौरवस्य समारोहः अपितु संस्कृति-संस्कार-राष्ट्रीयास्मितायाश्च पुनरुत्थानस्य प्रतीकः अपि सञ्जातः।
अस्मिन् अखिलभारतीये अधिवेशने केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतय: प्रो॰श्रीनिवासवरखेडी संस्कृतभारत्याः अखिलभारतीय-अध्यक्षः प्रो॰ रमेशकुमार पाण्डेय: महर्षि पाणिनि वैदिकसंस्कृत विश्वविद्यालयस्य कुलपतिः प्रो॰शिवशज्र्रमिश्र: काशीविद्वत्परिषदः अखिल भारतीयमहामन्त्रीसंस्कृतभारत्याःकाशीप्रान्तस्य अध्यक्षश्च प्रो॰ रामनारायणद्विवेदी,मण्डलाधिकारी त्रिपाठी चन्द्र भूषणःप्रो॰कृष्णकान्तशर्माण:आचार्यत्रिपाठी चन्द्र प्रकाशः कानपुरप्रान्तस्य प्रान्तमन्त्री डा॰ रत्नेश त्रिवेदी डा॰सर्वेश कुमार शाण्डिल्य: डा॰श्याम सुन्दरः मनीषदीक्षित इत्यादयः अन्ये च विद्वांसः उपस्थिताः आसन्।






