प्रयागराज:। वार्ताहर:। हिन्दी सप्ताहस्य भावनां ‘स्वच्छतायां सहकार्यं’ च अनुसृत्य स्वच्छता पक्षस्य समापन समारोहः इफ्फको फुलपुर सामुदायिक केन्द्रे आयोजितः। कार्यक्रमस्य आरम्भः गणमान्य जनाः सरस्वती देव्याः प्रतिमायां पुष्पार्पणेन दीप प्रज्वलनेन च अभवत्। वरिष्ठ कार्यकारी निदेशकः (इकाई प्रमुखः) संजय कुदेसिया अवदत् यत् हिन्दी भाषायाः सौन्दर्यं अस्ति यत् एषा अनेकाः भाषाः समाविष्टा अस्ति तथा च अनेकानां भारतीय भाषाणां जननी अस्ति। उर्दूभाषायाः उत्पत्तिः अपि हिन्दीतः अभवत्। मानव संसाधन प्रमुखः शम्भूशेखरः स्वच्छता पक्षवाडा काले आयोजितानां कार्यक्रमानां विवरणं दत्तवान्। कार्यक्रमस्य संचालनं हेमलता सिजोरिया कृतवती। महा प्रबन्धक रत्नेश कुमार, ए. गुप्ता, तथा पी.के. वर्मा, इफ्को आफिसर एसोसिएशन अध्यक्ष अनुराग तिवारी तथा महासचिव: स्वयंसेवक प्रकाश:, इफ्को कर्मचारी संघ अध्यक्ष: पंकज पाण्डे तथा महासचिव विजय कुमार यादव: सहितं नैका: जना: बालक- बालिका: उपस्थिता: आसन्।







