कृष्णपालनेगिना डॉ. सुभाषचन्द्रस्य मार्गनिर्देशने भौतिकी विषये पीएचडी शोधोपाधिः अवाप्तः

वार्ताहरः-दीनदयाल शुक्लः/रामनगरम्। पीएनजी-राजकीय-स्नातकोत्तर महाविद्यालय-रामनगरम् इत्यस्य भौतिकीविभागस्य शोधच्छात्र: कृष्णपालनेगि: कुमाऊंविश्वविद्यालयः नैनीतालम् द्वारा पीएचडी शोधोपाधिना विभूषित:। गढवालहिमालयस्य उत्तरकाशी क्षेत्रे ‘मृत्तिकातः पर्यावरणपर्यन्तं रेडॉनजननस्य अध्ययनं तथा च परिवहनस्य अध्ययनम’ विषये शोधकार्यं शोधकर्त्ता कृष्ण पालनेगी कृतवान्। गढ़वालविश्वविद्यालयस्य प्रोफेसर आरसीरमोला इत्यस्य (मेण्टरशिप) निरीक्षकत्वे राजकीय स्नातकोत्तर-महाविद्यालय रामनगरस्य भौतिक विज्ञान विभागस्य सहायक प्राध्यापक: डॉ. सुभाषचन्द्रः इत्यस्य कुशलमार्ग दर्शने अनेन स्वीयं शोधकार्यं सम्पादितम्। कुमाऊँ विश्वविद्यालये भौतिकशास्त्र विभागस्य प्रमुख समन्वयक प्रोफेसर सूचीबिष्टवर्याणाम् आध्यक्ष्ये मौखिक परीक्षा समायोजिता सम्पन्ना च। परीक्षायाः बाह्यपरीक्षकः दिल्ली विश्व विद्यालयस्य भौतिकशास्त्रविभागस्य प्राध्यापकः संजयकुमारचमोली आसीत्। परीक्षकाः तेन कृतस्य शोधकार्यस्य प्रशंसाम् अकुर्वन्, तत् गुणात्मकं चेति उक्तवन्तः। अवसरेऽस्मिन् बाह्य परीक्षकत्वेन प्राध्यापक:संजयकुमार चमोली, भौतिकी विभागाध्यक्ष: सूचीबिष्ट:, शोधनिर्देशक: डॉ. सुभाषचन्द्र:, डॉ. राकेशनेगी आदय: शोधकर्त्रे कृष्णपालाय वर्धापनानि शुभा कामनाश्च दत्तवन्त:। शोधोपाधि लब्धये रामनगर महाविद्यालयस्य प्राचार्य: प्रो. एम. सी. पाण्डेवर्यः, मुख्यशास्ता प्रो.एस.एस.मौर्य:, भौतिकी विभागाध्यक्ष: डॉ. लवकुश कुमार:, प्रो.जे.एस. नेगी, डॉ. प्रमोद जोशी, डॉ. मूलचन्द्रशुक्ल:, डॉ. अनुराग श्रीवास्तव:, डॉ. पी.सी. पालीवाल:, डॉ. डी.एन.जोशी इत्यादय: शुभकामना: प्रायच्छन्। कृष्णपालनेगिना अस्य सफलतायाः श्रेयः स्वगुरुभ्यः स्वपरिवार जनेभ्यश्चच प्रदत्तम्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    मौनस्नानसमये संस्कृते: अद्भुतध्वनिः अनुभूयते स्म, सनातनमेला सह अनुशासनस्य अद्वितीयं पाठं दत्तवान्

    शम्भूनाथ त्रिपाठी/प्रयागराज:। मौनी अमावस्यायां सनातन भक्तानाम् शोभायात्रा प्रतिघण्टां अभिलेखान् भङ्गयति स्म। शनिवासर-रविवासरात् प्रयागराजः गङ्गा-यमुना-अदृश्य-सरस्वती-सङ्गमे मौनेन स्नान-जनैः परिपूर्णः आसीत्। एतेषु समीपस्थ ग्रामेभ्यः जनाः शिरसि पुटं वहन्तः आसन्, विशेषरेलयानैः, बसयानैः च महत्त्वपूर्णसङ्ख्यायाः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 199 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 131 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 170 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 98 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 120 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 151 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page