प्रयागराज:। वार्ताहर:। रानीरेवतीदेवी समूहस्तरीय विज्ञान संस्कृति ज्ञान मेलापक: सम्पन्न:। प्रयागराज विद्याभारती इत्यनेन सम्बद्धितं काशी प्रान्तस्य रानी रेवती देवी सरस्वती विद्या निकेतन इण्टर कॉलेज राजापुर प्रयागराजस्य छात्रा: प्राचार्यस्य मार्गदर्शने भागं गृहीतवन्त:। माधव ज्ञान केन्द्र इण्टर कॉलेज खरकौनी नैनी इत्यत्र आयोजित: ज्ञान मेलापके प्रायश: सर्वेषु वर्गेषु प्रथम स्थानं प्राप्तवन्त: रानी रेवती देवी विद्यालयस्य वर्चस्वं पुनर्स्थापितम् ।भ्रातृभगिनीनां सफलता पर विद्यालयस्य प्राचार्यः बाँके बिहारी पाण्डेयेन वन्दनासभायां प्रमाणपत्राणि पदकानि च दत्त्वासर्वेषांसम्मानंकृतम्। विद्यालयस्य संगीत शिक्षकः मीडिया प्रभारी च मनोजगुप्ता उक्त प्रतियोगितायां क्लस्टरस्य अष्ट विद्यालयेभ्यः कुलम् २४५ भ्रातरः/ भगिन्यः भागं गृहीतवन्तः इति उक्तवान्। सोनभद्रस्य सरस्वती विद्यामन्दिर खरिया इत्यत्र १५, १६, १७ सितम्बर दिनाङ्के आयोजितायां राज्य स्तरीय प्रतियोगितायां सर्वे विजेतारः भ्रातरः/भगिन्यः आमन्त्रिताः सन्ति।







