शिक्षकदिवसे संस्कृतसंस्थानेन समायुक्ता ऑनलाईन-सङ्गोष्ठी

लखनऊ। उत्तरप्रदेश संस्कृत संस्थानस्य, लखनऊ इत्यनेन ०५ सितम्बर २०२५ दिनाङ्के शिक्षकदिवसम् उपलक्ष्य ऑनलाईन प्रशिक्षण-पाठ्यक्रम निर्माण योजनान्तर्गता विशिष्टा ऑनलाईन प्रशिक्षक सङ्गोष्ठी आयोजिता। अस्यां सङ्गोष्ठ्यां समाचारलेखनविषये प्रमुखतया चर्चा विहिता। कार्यक्रमस्य आरम्भः आस्था शुक्लया वैष्णवीशर्मणा च गीतेन विहितस्तत्र, नीलमरानी च मंगलतातनोत्। प्रशिक्षकेण दिवाकर मणि त्रिपाठिना स्वागतोद्बोधनं कृत्वा कार्यक्रमः प्रारभ्यत। अस्मिन्नेव अवसरे वक्तृत्वेनोपगतोऽशोकमिश्रः विषयं उपस्थाप्य समाचारस्य रूपरेखां, प्रस्तुतीकरणशैलीं, महत्त्वं च प्राकाशयत्। तेन उदितं यत् वार्तालेखनाय शीर्षकम् आकर्षकम् अवश्यमस्ति, यतो हि तेन वार्ता बलमाप्नोति। समाचारलेखनसमये विशिष्टं वक्तृकथनं, विशेषेण सहभागिता च नितरां लेखनीया इति। अन्योन्ये विषय विमर्शे पत्रकारितायां लब्धप्रतिष्ठोऽंशु गुप्ता स्पष्टीकृतवान्यत् समाचारलेखनस्य चत्वारि सोपा नानि भवन्ति-यत्परिचयः, कार्यक्रमविवरणं, विशिष्ट वक्तव्यं, जनसहभागिता च। सोऽवदत् यत् लेखने संक्षिप्तता समयबद्धता च विशेषतया ध्यातुं योग्ये। समाचार भाषा सरला प्रभाविनी च भवेत् इति ते विशेषतया बलमसौ अददात्। इदमपि अमुनासमुदीरितं यत् शीर्षकनिर्णयाय प्रथमं सम्पूर्णं समाचारं लिखित्वा अनन्तरं शीर्षकं चयनं करणीयम्। अस्मिन् कार्यक्रमे मान्यनिदेशकस्य गौरवास्पदं सन्निधानं, योजनाप्रभारिणो प्रशिक्षण प्रमुखस्य प्रेरणं च विशेषतया प्रेरणादायित्वं भजते। सत्रस्य संयोजनं धीरजमैठाणी कृतवान्, परिकल्पिका समन्वयिका राधाशर्मेति चासीत्। सञ्चालनं नीलाक्षीश्रीवास्तवेन विहितम्। गृहे गृहे संस्कृतम् इति योजनायाः समन्वयकोऽनिलगौतमः स्वीये अतिथेः उद्बोधने शिक्षकदिनमाधृत्य प्रेरणास्पदं शिक्षकीयगौरवं प्रतिष्ठापितवान्। दिव्य रञ्जनस्समन्वयकस्तावद् अध्यक्षी योद्बोधने शिक्षकस्य शिक्षकत्वं प्रतिष्ठाप्य सङ्गोष्ठीं सार्थकतां समानयत्। सत्रावसाने सचिनशर्मणा आभारो व्यक्तवान्, पूनमसिंहः इत्यनया प्रशिक्षिकया विहित शान्तिमन्त्रपाठः कार्यक्रमं समापनं प्राप्नोत्। प्रशिक्षक सङ्गोष्ठ्यामस्यां संस्थानस्य ऑनलाइन प्रशिक्षण पाठ्यक्रम निर्माणयोजना, गृहे गृहे संस्कृतम् इत्यस्य योजनाद्वयस्य सर्वे प्रशिक्षकाः, शिक्षार्थिनो संस्कृत सम्भाषिणः सामाजिकाश्च अतिष्ठन्।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 96 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 77 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page