विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

धीरज मैथानी/देहरादून। तुलसी प्रतिष्ठानम् (२ सितम्बरमासः)उत्तराखण्डविद्वत्सभायाः षोडशस्थापना-दिवस-समारोहः अद्य देहरादून-नगरे तिलकमार्गे अवस्थिते तुलसीप्रतिष्ठाने अत्यन्तं हर्षोल्लास-गौरवपूर्णेन वातावरणेन सम्पन्नः। अस्मिन् अवसरे क्षेत्रेभ्यः विभिन्नेभ्यः आगतानां विद्वज्जनानाम, आचार्याणां, गणमान्य जनानां च उपस्थिति रेव समारोहस्य विशेषं महत्वं समावहत्। समारोहस्य मुख्यातिथिः देहरादूननगरनिगमस्य माननीयमहापौरः श्री सुनीलः थपलियालः आसीत्। सः सभायाः क्रियाकलापानां प्रशंसा कृत्वा समाजे विद्वज्जनानां भूमिका अनिवार्या इति उक्तवान् विशिष्टातिथिरूपेण ज्योतिष्पीठ-जोशी मठस्य धर्माधिकारी, ज्ञानी गोलोक धाम्नःसंस्थपकाध्यक्षःसभायाः संरक्षकः,ज्योतिषाचार्यः डॉ. रमेशचन्द्र पाण्डेयः उपविष्टः। तेन भारतीयज्ञान परम्परायाःसंरक्षण-सम्वर्धनयोः आवश्यकतां विवृण्वन् उक्तं-‘विद्वानेव विजानाति विद्वज्जन परिश्रमम् , विद्वान् एव विद्वांसम् अग्रे नेष्यति अन्यः कश्चित् न। तेनोक्तं यत् संस्कृत भाषा च संस्कृति च संवर्धिता संरक्षिता च भविष्यतः।’ समारोहस्य अध्यक्षतां उत्तराखण्ड विद्वत्सभायाः अध्यक्षः आचार्यः हर्षपति गोदियालः अकरोत्। सः अध्यक्षीय भाषणे सभायाः उद्देश्यान् भावी-योजनाश्च प्रकाश्य उक्तवान् यत- ‘सभा सदा समाजे ज्ञानस्य, संस्कृतेः, संस्कृत भाषायाः च प्रचार प्रसाराय समर्पिता भविष्यति।’
समारम्भःवैदिकमन्त्र-उच्चारणेनदीप प्रज्वलनेन च आरब्धः-मञ्चे विराजमानाः विशिष्ट-महानुभावाः आसन-ज्योतिषपीठ व्यस्सम लङ्कृतः शिवप्रसादः ममगाई, श्रीपरशुराम चतुर्वेद विद्यालयस्य प्राचार्यः भरतरामः तिवारी, गोव्रती डॉ. रामभूषण बिजल्वाणः, संरक्षणपवनशर्मा, प्रखरप्रवक्ता सुभाष जोशी, पूर्वाध्यक्षः विजेन्द्रममगाई, जयप्रकाश गोदियालः, नव्य संरक्षको राजदीपडिमरी च। एते सर्वे संस्थापकानां प्रति कृतज्ञता व्यक्तवन्तः। उपमञ्चे च पूर्वाध्यक्षोऽनुसूयाप्रसाददेवली, पुरोहितसमाजाध्यक्षः प्रेम बिंजोला, पूर्वपदाधिकारी दिनेशप्रसादभट्टः, मुकेश पन्तः, धीरजमैठाणी, सुरेशडबरालः, मन्त्री प्रसादः थपलियालः च सुशोभिताः। मञ्च सञ्चालनं महासचिवःअजयडबरालः अकरोत। प्रस्तावनां मुरली धरः सेमवालः, समागत जनानां स्वागतं माल्या र्पणेन उपाध्यक्षः सत्यप्रसादः सेमवालः, प्रवक्ता विपिनः डोभालः,संगठन सचिवः राजेशः अमोलिः, परामर्शकः आशीष खंकरियालः च अकुर्वन। कोषगत दायित्वम् आदित्यरामः थपलियालः, दीपकः अमोलिः च निरवहताम। उत्तराखण्डसंस्कृतिविभागात् अनीता पोखरियालस्य नेतृत्वे सांस्कृतिकप्रस्तुतये एकं दलंविशेषतयाउपस्थितम।कार्यक्रमस्थलेतुलसी प्रतिष्ठानस्यप्रधानः अश्विनीअग्रवालः अपि प्रमुखतया विराजमानः आसीत। अस्मिन् अवसरे सर्वे कार्य कारिण्यः,पूर्वपदाधिकारी,परशुरामचतुर्वेद विद्यालयस्य आचार्यः भगवतीप्रसादः थपलियालः सह ब्रह्मचारी-बटुकाः,पुरोहितसमाजस्यविप्राः, आजीवन सदस्याः, पत्रकारबन्धवः च समुपस्थिताः।

  • editor

    Related Posts

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    देहरादून/वार्ताहर:। हरिद्वारनगरे देवसंस्कृति विश्वविद्यालयेन आयोजिते ध्वजारोहण समारोहे मुख्यमन्त्री पुष्करसिंह धामी, केन्द्रीय संस्कृति पर्यटन मन्त्री गजेन्द्रसिंह शेखावतः च भागं गतवन्तौ।वक्तारः गायत्री परिवारस्य शताब्दी समारोहं भारतीय संस्कृतेः,सेवायाः, आध्यात्मिक व्यवहारस्य च पुन र्जागरणस्य…

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    आनन्द शुक्ल। २०२६ तमे वर्षे बीएमसी-निर्वाचने भाजपा-शिवसेना-सङ्घटनेन ऐतिहासिकं विजयं प्राप्तम्, एकैकंबृहत्तमं दलं रूपेण उद्भूतम्। एतेन विजयेन ठाकरे-परिवारस्य दशक त्रयपर्यन्तं कृतं वर्चस्वं समाप्तं भवति। बीएमसी-मध्ये २२७ वार्डेषु बहुमतस्य अंकः ११४ अस्ति,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 96 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 77 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page