मण्डलस्तरीया: संस्कृत प्रतिभान्वेषण प्रतियोगिताः पुरस्कार वितरणस्यायोजनं

डॉ. विजय पयासी/चित्रकूटम् । उत्तरप्रदेशसर्वकारस्य भाषा विभागान्तर्गतम् उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊ द्वारा चित्रकूटमण्डले संस्कृतप्रतिभा-अन्वेषण प्रतियोगिता २०२५ इति मङ्गलवासरे अगस्तमासस्य १९ दिनाङ्के आयोजिता। आयोजनमिदं जयदेववैष्णव-संस्कृत महाविद्यालयःकर्वी,चित्रकूटम् इत्यत्र समभवत्। यस्मिन् चित्रकूटमण्डलस्य बांदा, महोबा, चित्रकूटम्, हमीरपुरम् इत्येतेभ्यः ४० तः अधिकानां प्रतिभागिनां कृते संस्कृतगीतानि, संस्कृत-अन्त्याक्षरी, संस्कृत सामान्य ज्ञानम् इति चतुर्विध प्रतियोगितासु विद्यार्थिनः समुपस्थाय भागं गृहीतवन्तः। प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवदन्तः विजेतारः स्मृतिचिह्नेन प्रमाणपत्रादिभिश्च च पुरस्कृताः। अन्ये प्रतिभागिनः सान्त्वना पुरस्कारेण सम्मानिताः। श्रीजयदेव वैष्णव-संस्कृत महाविद्यालयस्य प्राचार्येण डॉ. मनोजकुमारद्विवेदिना समेषामतिथीनां स्वागतं व्यधायि। स्वसम्बोधने सः संस्कृतं भारतस्य आधारः इति विवर्ण्य संस्कृतभाषायाः रक्षणे स्वस्य प्रमुखा भूमिका भवेदिति उक्तवान्। तद्विना भारतीय संस्कृतेः कल्पना असम्भवमित्यपि उक्तवान्। पुरस्कार वितरण समारोहस्य विशिष्टातिथिः रामनगरस्य पीएनजी राजकीयस्नातकोत्तरमहाविद्यालयात् संस्कृतविभागप्रमुखः डॉ. मूलचन्दशुक्ल: आसीत्। मुख्यभाषणे तेन प्रोक्तं यत् सर्वेपि विजेतारः वर्धापनयोग्याः वरीवृत्यन्ते।डॉ. शुक्लेन निगदितं यत् विद्यार्थिभिः सर्वविषयाणाम् अध्ययनेन सह एतादृशेषु विविधेषु उपक्रमेष्वपि प्रतिभागः गृहीतव्यः। अग्रे तेन प्रोक्तं यत् संस्कृतस्य विभिन्नक्षेत्रेषु स्वकौशलस्य विकासाय प्रतियोगिपरीक्षासु साफल्यमवाप्तुं च छात्राः अग्रेसरेयुः। आचार्यः डॉ. पूर्णेन्दु मिश्रः सर्वेभ्यः प्रतिभागिभ्यः समानोर्जया सह भागं गृहीतुमाह।
समारोप समारोहे मुख्यातिथि: प्रबन्धक: महन्तः रमाशंकर दास: अन्यैः अतिथिभिस्सह विजेतृ प्रतिभागिभ्यः प्रमाणपत्रम् प्रदाय प्रोत्साहनं विहितम्। संस्था द्वारा नामित: मण्डलसमन्वयक: डॉ. विजयपयासी इत्यनेन उक्तं यन्मण्डलस्तरे प्रथमं द्वितीयं च स्थानप्राप्त प्रतिभागिन: राज्यस्तरे भागग्रहणं कर्तुमर्हाः भविष्यन्ति। सोऽवदत् यत् संस्कृतगीते आख्यासिंह श्रीजीअन्ताराष्ट्रिय विद्यालयस्य ऋतुयादवः द्वितीयस्थानं, जवाहरलालनेहरू महाविद्यालयः बांदा इत्यस्य छात्रा च तृतीयस्थानं प्राप्तवती। तथैव श्री भुवनेश्वरीगुरुकुलझलोखरहमीरपुरस्य अभिनव दीक्षितः प्रथमस्थानं प्राप्तवान्।
संस्कृतसामान्यज्ञानस्य बालवर्गप्रतियोगितायाम् आयुष ग्राम गुरुकुलम् बेडीपुलिया इत्यस्य उत्कृष्टछात्रः संस्कृत मिश्रः, प्रथमस्थानं, श्रीदुर्गासंस्कृत महाविद्यालय महोबा-नगरस्य हरिओमः द्वितीयं, राजाराम-इण्टर-विद्यालय-झालोखरम् ,हमीरपुरम् इत्यस्य छात्रः सुयशः तृतीयं स्थानं च प्राप्तवन्तः।संस्कृत सामान्य ज्ञानयुव वर्गे जवाहर लाल नेहरू महाविद्यालय बान्दाइत्यस्य पंकज कुमारः प्रथमस्थानं, विष्णुकान्त द्वितीय स्थानं,तत्रत्यः छात्रः तृतीयस्थानं च प्राप्तवन्तः। रामनगर महाविद्यालय तः डॉ. मूलचन्द्र शुक्ल:, फतेहपुरात् डॉ. यीशनारायणद्विवेदी, महोबात: डॉ. योगेशकुमारशुक्ल:,चित्रकूटात् डॉ. जगत नारायण द्विवेदी,बांदात: नरेन्द्रमिश्र:,बांदात: डॉ. सर्वेश तिवारी, औरैयात: प्राचार्य: डॉ. पूर्णेन्दुमिश्र: डॉ. सर्वेश कुमार शाण्डिल्य श्च निर्णायक रूपेण समुपस्थिता आसन्। कार्यक्रमस्य अन्ते संयोजकेन संस्कृत संस्थान पक्षतःसर्वेपिआगन्तुकाः मुख्यातिथयः, विशिष्टा तिथयः, सारस्वताति थयः, निर्णायकाः, प्राध्यापकाः, आगन्तुकाः अभिभावकाः,विद्यार्थिनः,अनेकेभ्यः विद्यालयेभ्यः संस्कृत विद्यापीठादिभ्यश्चसमागताःशिक्षकाः,प्राचार्याः, जिज्ञासवः नगरस्य प्रख्यात नागरिकाः, पत्रकार बन्धवः च धन्यवादैः सभाज्यन्ते। कार्यक्रमस्य संचालनं डॉ. यीशनारायणद्विवेदिना विहितम्।

  • editor

    Related Posts

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    नवदेहली। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहन भागवतः शनिवासरे अवदत् यत्, ‘भारतस्य स्वभावे संघर्षेषु प्रवृत्तिः नास्ति। देशस्य परम्परायां सर्वदा भ्रातृत्वस्य, सामूहिकसौहार्दस्य च उपरि बलं दत्तम् वर्तते। सः अवदत् यत् भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यव्याख्याभ्यः…

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    लखनऊ। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन शनिवासरे रायपुरनगरे ६० तमे अखिलभारतीय महानिदेशक/ पुलिस महानिरीक्षक सम्मेलनस्य अध्यक्षता कृता। त्रिदिवसीय सम्मेलनं भारतीय प्रबन्धन संस्थायां रायपुरे सम्पन्नम्। २८ नवम्बर् दिनाङ्के आरब्धस्य सम्मेलनस्य कृते शुक्रवासरे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 4 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 4 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 7 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page