मालिनीवैलीशिक्षामहाविद्यालये भाषाकार्यशाला च ई-टेक्नो माइण्ड सार्थक योगशाला द्वारा संस्कृतयोग: समपद्यत

कोटद्वार/देहरादून/वार्ताहर:। मङ्गलवासरे कोटद्वारस्थे मालिन्यास्तटविराजिते मालिनीवैलीशिक्षणमहाविद्यालये संस्कृतभारत्याः कोटद्वारशाखायाः संयुक्ततत्त्वावधाने समायोजितस्य संस्कृतसप्ताहस्य साफल्येन समापनमभवत् यत्र हि मालिन्युपत्यकायां संस्कृतसम्भाषणेन सह अयं सप्ताहः आमानितः तत्रैव ईटेक्नोमाइण्ड् सार्थक योगशाला द्वारा सद्भावनापरिसरे शिब्बूनगरे शिवपुरे बालासौडे परमार्थवैदिकगुरुकुलकण्वाश्रमे उमरावनगरे च संस्कृतमययोगकार्यक्रमाः अपि प्रवृत्ताः? तत्र रावतसोनमा रावतशुभमः कण्डवालसार्थकः राणापूजा सन्तोषी च मार्गदर्शकस्य कण्डवालराकेशस्य निर्देशने योगमाध्यमेन संस्कृतोत्सवम् अमन्यन्त? षडागस्तदिनाज्रत् आरब्धायां अस्यां भाषाकार्यशालायां प्रतिभागिभिः सरलेन संस्कृतेन वार्तालापं कर्तुं शिक्षितम् समापनकार्यक्रमे प्रतिभागिनः स्वानुभवान् अवर्णयन् योगछात्राश्च योगनृत्यादीनां मनोहारि प्रदर्शनमकुर्वन्? विद्वज्जनैः मालिन्याः उद्गम स्थलात् आरभ्य कण्वाश्रमं यावत् व्याप्तस्य संस्कृत भाषायाः गौरवपूर्णः इतिहासः प्रकाशितः? अस्मिन्नेव क्षेत्रे महाकविना कालिदासेन विरचिते विश्वविश्रुते अभिज्ञान शाकुन्तल नाटके पात्रैः व्यवहृतस्य संस्कृतस्य महत्त्वमपि वर्णितम् अस्मिन् कार्यक्रमे संस्कृतभारत्याः कोटद्वार नगराध्यक्षः डाक्टर् कुक्रेतिरमाकान्तः डाक्टर् मैन्दोला कुलदीपः डाक्टर् जोशीप्रभा सुन्दरियालमुकेशः कण्डवाल रामभरोसा नैथानीप्रकाशचन्द्रः डाक्टर् शर्मानुरागः नौटियाल सत्य प्रकाशः तस्य धर्मपत्नी श्रीमती नौटि याल वर्या नौटियाल मनमोहनः कालामणमोहनः श्वेता बिष्टाञ्चलवर्या प्रियज्र रावतसोनमा नैथानीहितेन्द्रः योगछात्राः तेषामभिभावकाश्च संस्कृतस्य प्रचाराय प्रसाराय च दृढसज्र्ल्पं स्वीकृतवन्तः? कार्यक्रमस्य कुशलं सञ्चालनं मुख्यशिक्षकेण मैन्दोलाकुलदीपेन कृतम् अस्मिन्नवसरे साहित्याञ्चलसंस्थाया अध्यक्षो नैथानीप्रकाश चन्द्रः अस्माभिः स्वसंस्कृतेर्देववाण्याश्च सर्वथा अनुकरणं कर्तव्यमिति उपदिष्टवान्। तथैव गेप्ससंस्थायाः कोषाध्यक्षः कालामन्मोहनः संस्कृतभाषां सर्वक्षेत्रगामिनीं सर्वोपयोगिनीञ्च भाषां प्रत्यपादयत्। देवभूमि-उत्कर्ष-सेवा-समिति-संस्थापकः कण्डवालरामभरोसा तु ग्रामे ग्रामे अस्माकं व्यवहारभाषा संस्कृतमेवासीदिति दृढमुक्तवान्। परमार्थ वैदिक गुरुकुलस्याचार्यो नौटियालमन्मोहनः कण्वाश्रम संस्कृतेः संरक्षकान् जनान् विश्वामित्रकण्व महर्षिसदृशान् हितैषिणोऽवर्णयत् कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण समुपस्थितो राजकीयमहाविद्यालयस्य भाबर-कोटद्वार स्थस्य वाणिज्यप्राध्यापकः डा. शर्मानुरागः उदघोषयद् यत् वयमद्यापि वेदसंस्कृतप्रवाहे निहितं ज्ञानविज्ञानं भृशं जानीमः। संस्कृतभारत्या चेदं संस्कृतं सरलीकृत्य सरसं विधाय च लोकान् संस्कृतसम्भाषणे प्रवर्तितमिति संस्थायाः कार्यमश्लाघत। संस्कृतभारत्या नगराध्यक्षो डा. कुकरेती रमाकान्तः न्यगदद् यद् मालिन्यास्तटे प्रवहन्नयं संस्कृतप्रवाहः कण्वाश्रमं स्मारयति।
सप्तदिनेषु अस्माभि र्विविधाः कार्यकलापाः संस्कृत सम्भाषणेनैव प्रारब्धाः। उपनयनं रक्षाबन्धनं शोभायात्रा चेति सर्वेषु कार्यक्रमेषु संस्कृतध्वनिभिः श्लोकैर्मन्त्रैर्जय घोषैश्च कण्वाश्रमपरिसरः प्रतिध्वनितः कृतः साप्ताहिक्यां भाषाकार्यशालायां संस्था निदेशकेन श्रीमता रावतयोगम्बरसिंहेन सर्वेषां मनोबलं वर्धयता स्वयं संस्कृतसंवादे भागो गृहीतः। तत्र सहयोगि शिक्षिका कार्यशालाया आयोजिका च रावतश्वेता संस्कृतसप्ताहमिमं सरसं विधातुं मुख्यां भूमिकामवहत्। संस्कृते स्वर्णपदकविभूषिता नेट्-सेट्-परीक्षासूत्तीर्णा च बिष्टाञ्चल नाम्नी संस्कृतसम्भाषणस्य प्रभूतम् अभ्यासमकारयत्। अपि च प्रियज्र सुन्दरियाल मुकेशः खर्कवालप्रभाप्रभृतिभिः संस्कृत गीतानि श्लोकाः स्वानुभवाश्च सभामध्ये प्रस्तुताः अत्रैव ई-टेक्नोमाइण्ड्-सार्थक-योगशाला-कोटद्वारतः मुख्यमार्गदर्शकस्य राइका काण्डाखाल सम्बद्धस्य कण्डवाल राकेशस्य निर्देशनेन शिक्षिकया रावतसोनमया योग प्रस्तुतिरपि समायोजित। तत्र सौम्या संस्कृतिर्याशवी आद्रिका आरवी काश्वी आराध्या आद्या स्वर्णिका समृद्धि प्रभृतिभि र्बालिकाभिः चटका चटकेति शक्तिसम्भृतं युक्ति सम्भृतमिति च संस्कृतगीत योर्योगसमन्वितं प्रदर्शनं कृतम् । अन्ते च मुख्यातिथिना सर्वेभ्यः प्रतिभागिभ्यः पदकं प्रदाय सम्माननं विहितम् ?

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 97 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 55 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 45 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 39 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 53 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 78 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page