संस्कृत सम्भाषणं भारतीयसंस्कृतेः परिचायकम्-डॉ. नीतू बलूनी

धीरज मैथानी/बालावाला,देहरादून। संस्कृत भारती देहरादूनम् इत्यनेन संस्कृतसप्ताहस्य प्रसङ्गे संस्कृत सम्भाषणकार्यक्रमः सम्पादितः। गरिमामय वातावरणे कार्यक्रमस्य शुभारम्भे मुख्यवक्ता नागेन्द्र दत्त व्यासः सभायां भाषमाणः अवदत् ‘संभाषणमेव तादृशं सोपानम् अस्ति, येन संस्कृतभाषा व्यवहार रूपेण जीवनस्य प्रवाहत्वेन अवतरितुं शक्यते।’ अध्यक्ष पदेन विराजमानः डॉ. रामभूषणबिजल्वाणः उक्तवान् यत् सात्त्विकबुद्ध्या संस्कृतं वाग्व्यवहारे समर्च्य आत्मगौरवं भारतीयता च वर्धयितुं शक्येते। जनपदमन्त्री डॉ. प्रदीपसेमवालः सर्वेषां कार्यकर्त?णां संगठनस्य च परिचयं दत्त्वा संस्कृतसप्ताहस्य उद्देश्येषु प्रकाशमक्षिपत्। पूर्वः पूर्णकालिककार्यकर्ता विशाल प्रसाद भट्टः साभिनयं, सोदाहरणं च संस्कृत संभाषण शिक्षणं प्रदत्तवान्। सहसपुरखण्डसंयोजिका, कार्यक्रमस्य च संयोजिका डॉ. नीतु बलूनी सर्वेषां अतिथीनां प्रतिभागिनां च कृते आभारं प्रकटितवान्।
कार्यक्रमोत्तरं जनपदे संस्कृतस्य प्रसाराय प्रचाराय च सङ्गटनमंत्रिणा गौरवशास्त्रिणा सह कार्यकर्त?णाम् उपवेशनं जातम्। तत्र तेषामपेक्षितं मार्गदर्शनमवाप्तम्। नीतिशमैठाणीधीरजबिष्टौ च उक्तवन्तौ यत् एतत् आयोजनं ‘गृहे-गृहे संस्कृतम्’ इत्यभियानस्य अन्तर्गते क्षेत्रे संस्कृत भाषायाः व्यावहारिक प्रयोगस्य, प्रचार प्रसारस्य,जनजागररणस्य च प्रोत्साहनार्थम् आचरितः। अस्मिन् अवसरे उपस्थितजनाः संस्कृतेः सहज संवादे, लघुनाटिकासु, रोचकक्रीडासु, उद्घोषक वाक्यपाठे च भाषां प्रति जागरूकतावर्धनाय च विविधाः क्रियाकलापाः अनुष्ठेयाः। मञ्च सञ्चालनस्य दायित्वं सम्पर्कप्रमुखः धीरजमैठाणी वहन् आसीत्। डॉ. आनन्दमोहनजोशी मधुरं संस्कृतगीतं प्रस्तुतवान्, डॉ. बीना पुरोहित ध्येयं मन्त्रं पठितवती, कनिका सङ्ख्यागीतं गायितवती, श्रीमती रीता गुसाई च सर्वेषु व्यवस्थासु सहयोगं कृतवती। अस्मिन् अवसरे गुड्डीगुसाईं, खुशीबहुगुणा, सुशीलबहुगुणा, सुशीला नैथानी, डॉ. देशराजसिंहचौहानः, बिन्दु जोशी, सरोजः, समीक्षा सिंह, कमलादेवी, दीपा बलूनी इत्यादयः गणमान्यजनाः उपस्थिताः आसन्। संस्कृत भारती देहरादूनं सर्वान् संस्कृत प्रेमिणः, विद्वांसः, विद्यार्थिनः, सामान्य जनान् च आह्वयति यत् ते एवं प्रकारेषु आयोजनेषु अधिकतया सहभागित्वं कुर्वन्तु, संस्कृत भाषायाः संवर्धन संरक्षणयोः च योगदानं दद्युः।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 199 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 131 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 170 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 98 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 120 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 151 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page