प्रवेशकुमारशुक्लः/भोपालम्। श्रावण पूर्णिमायां तिथौ प्रातः नववादने शीतलदासस्य उद्याने, कमला ओद्याने महातडागस्य तटे, भोपालनगरे श्रावणी-उपाकर्म समारम्भः वैदिकविधिपूर्वकं सम्पन्नः। अस्मिन्नुत्सवे द्विशताधिकाः वैदिकसनातनीभ्रातरः पुण्य लाभं प्राप्तवन्तः। समारम्भे आचार्यः डॉ॰ रामकुमारदेवलियः वैदिकविधिना संकल्पं पूजनं च सम्पन्न्य व्याचष्ट – प्रतिवर्षं हेमाद्रिसंकल्पपूर्वकं प्रायश्चित्तार्थं दशविधि स्नानं, वेदपूजनं, ऋषिपूजनं, ऋषितर्पणं, नूतन यज्ञोपवीत धारणं च पञ्चब्राह्मणैः क्रियते इति। अस्मिन्नवसरे केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरस्य निदेशकः प्रो॰ रमाकान्तपाण्डेयः श्रावण्याः महत्त्वं प्रकाशितंम् भणितं यत् वर्षपर्यन्तं कृतानां ज्ञाताज्ञातपापानां प्रायश्चित्तं शुद्धिकरणं च कृत्वा, पूर्वजऋषीणां तर्पणं पूजनं च कृत्वा नूतनयज्ञोपवीतधारणस्य परम्परा प्रचलिता अस्तीति आयोजने प्रो॰ सुबोधशर्मा, प्रो॰ सनन्दन कुमार त्रिपाठि, प्रो॰ कृपाशज्र्रशर्मा, डॉ॰ नन्द किशोर तिवारी, डॉ॰ राहुलशर्मा, डॉ॰ जितेन्द्रतिवारी, डॉ॰ आशुतोष तिवारी, डॉ॰ रोहितपचौरीप्रभृतया: सनातन धर्म सस्यास्योपासका: सानन्दं उपस्थिताः आसन्। धार्मिक भावेन, वैदिकमङ्गलध्वनिभिः, सुसम्पन्नः अभवत्।






