संस्कृताचरणे कण्वाश्रमे उपनयनं, भव्यशोभायात्रा

कुलदीपमैन्दोला। कोटद्वारं। श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वार नगर समीपे महर्षि कण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिक गुरुकुले नूतन वटूनामुप नयन संस्कारः शास्त्रविधिना सुसम्पन्नोऽ भवत्। अयं महोत्सवः संस्कृत भारत्याः संस्थाया स्तत्त्वावधाने समायोजितः। अस्य पावन स्यानुष्ठानस्य सञ्चालनं गुरुकुलस्य प्रधानाचार्येण नौटियालमनमोहनेन कृतम्। अस्मिन् मङ्गलावसरे पूज्यगुरु महाराजाश् िचदानन्द मुनयः सर्वेभ्यो ब्रह्मचारिभ्यो गुरुमन्त्रं प्राददुः तेषां जीवने गुरुमन्त्रस्य महत्त्वं च विस्तरेण प्राकाशयन्। सनातनधर्मे वर्णितानां चतुर्णाम् आश्रमाणां गरिमाणं वर्णयन्तः ते विशेषेण ब्रह्मचर्या श्रम स्यादर्शेषु अनुशासने च बलं ददुः। अभिभावका नाम् आचार्याणां च पवित्रे सान्निध्ये सम्पन्नस्यैतस्य संस्कारस्यानन्तरं संस्कृत भाषाया गौरवं महत्त्वं च प्रकाशयितुं विविधाः कार्यक्रमा आयोजिताः। संस्कृत भारत्या मार्ग दर्शनेन छात्रैः श्रीमद्भगवद्गीतायाः श्लोकाः सुमधुरं समुच्चारिताः। ततः परं ब्रह्मचारिभिः संस्कृत भारत्या विभाग सह संयोजकेन मैन्दोला कुलदीपेन सह रेलगानं सरसा भाषा संस्कृतम् इत्यादीनि गीतानि भावपूर्णमगायन् येन समग्रं वातावरणं संस्कृतमयं सञ्जातम्। गुरुकुलस्य पूर्व प्रधानाचार्यः कुकरेति रमाकान्तः स्वसम्बोधनेऽकथयत् यत् संस्कृतं सर्वासां भाषाणां जननी अस्ति अस्याः संरचना च अतीव वैज्ञानिकी तर्कसङ्गता च वर्तते। गैप्स नाम्न्याः संस्थायाः संस्थापकः काला महोदयो मनमोहनः बालकान् आधुनिक वैज्ञानिक दृष्ट्या संस्कृतभाषाया वैशिष्ट्यानि उपयोगितां च विषये प्रेरकां वार्ताम् अश्रावयत्। अस्मिन्कार्यक्रमे विद्यालयस्य आचार्याः सुभाषः रावतश्च विभाग संयोजकः ध्यानी पज्र्जः नैथानी सिद्धार्थः रावत शुभमः इत्याद योऽनेके मान्याः जनाः समुपस्थिता आसन्। सम्पूर्णेऽस्मिन्नायोजने अध्यात्म संस्कार भाषा प्रेम्णा मद्भुतः सङ्गमः दृष्टः येन विश्व संस्कृत दिवसस्य आयोजनमिदं वस्तुतः सार्थकं सञ्जातम्

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page