नवदेहली। सर्वादौ ज्येष्ठाः वैद्याः दीपं प्रज्वाल्य पुष्पार्चनं कूतवन्तः। वैद्यकीयाः छात्राश्च श्री गणेशं स्मृत्वा धन्वन्तरिवन्द नाम कुर्वन्। संस्कृत दिवसस्य प्रास्तविक भाषणे कार्यक्रम संयोजकः डा नवीन जसोला समुपस्थिता नाम तिथिनां परिचयं, स्वागतमभि नन्दनं च व्याहरन् प्रोक्तवान् यत् संस्कृत भाषा भारतस्य प्राणः। इयं न केवल मायुर्वेदस्य मूलमपितु सर्वशास्त्राणां ,सर्वविद्यानां, सर्वकलानां, सर्व संस्काराणां ज्ञानविज्ञानानां च मूलाधारः। अनया भाषया एव विविध परम्पराणां संरक्षणं शक्यम्। तेनोक्तं यत् संस्कृतं सम्भाषणविधिना अतीव रुचिकरं सरलं च भवति। भारतीयज्ञानपरम्परायाः बोधश्च संस्कृतेन भवतीति। इतः परं स्निग्धाभव्यौ सांस्कृतिक कार्यक्रमं सुष्ठुरीत्या सञ्चालयन्तौ कार्यक्रम विवरणमु द्घोषितवन्तौ। तत्र प्रप्रथमं प्रथमवर्षीया छात्रा साक्षी अतिमधुरं गणपतिस्तोत्रं प्रस्तुतवती। आदर्शः, आदित्यः अन्ये च वैद्य रोगि सम्भाषणमिति हास्यरसान्वित स्यातिल घुनाटकस्य मञ्चनं कृतवन्तः। छात्रा विनती मधुरस्वरोपेतं ङमधुराष्टकंङ गीतवती। सृष्टिः, चारु,चाँदनी विनती, वन्दना, तनु तनिष्का, खुशबु रिया, आदयः सामूहिकं स्वरबद्धं ङधीवरगानंङ गीतवत्यः। चञ्चल-आरुषि वासुदेवश्च पायस प्रहसन मित्याख्यं लघुहास्यनाटकमभिनीतवन्तः। मध्ये स्पर्श हिमालय विश्वविद्यालयस्य संस्कृतविभागस्य शिक्षकः डा सुभाष बडोलावर्यः संस्कृतं सर्वासां भाषाणां जननीति व्याहरन् छात्रेभ्यः शुभदिनस्य शुभकामनाम यच्छत्। ततः आर्यन् परिक्षितोऽनुरागैश्च शिवताण्ड वस्तोत्रंङ प्रस्तुतम्। अथ पुनः स्पर्शहिमालय विश्व विद्यालयस्य संस्कृतविभागस्य शिक्षकः साहित्य सङ्गीतादि कलासु प्रवीणः डा आनन्द मोहन जोशिवर्यः संस्कृतस्य महत्वं आवश्यकतां प्रतिपाद्य स्वरताल बद्धोपेतम् अत्यन्तं श्रुतिमधुरं च ङनैव क्लिष्टा न च कठिनाङ इति गीतमगायत्। कार्यक्रम स्यान्ते प्रतिभागिनः पुस्कृताः। समागतानां धन्यवाद ज्ञापनं डा पज्र्जः अकरोत् समोरोपकाले सृष्टिः शान्तिमन्त्रं पठितवती। अस्मिन् अवसरे संहिता सिद्धान्त एवं संस्कृत विभागस्य आचार्यः वैद्यः अजीत कुमारः वैद्या दीक्षा तिवारी, क्रियाशरीर विभागस्य वैद्या अपेक्षा नेगी, वैद्या काव्या काला, वैद्या कल्पना , अगदतन्त्र विभागस्य वैद्यः सत्येन्द्रः, रचनाशरीरविभागस्य वैद्यः पज्र्जः वैद्या वैशाली, डा आरती डा गरिमा उपस्थिताः आसन्। छात्रेषु शुभमः, आशीषः, आराध्यः शिवानी श्रेया वर्णिका हर्ष चन्द्रः, दिव्यांशी, मिताक्षरा आदयः उपस्थिताः आसन्।






