विमानपत्तने विलम्बे सति यात्रिभि: संस्कृत सम्भाषणं कृतं, समयसदुपयोगस्य अद्भुतं दृश्यं-संस्कृतभाषायाः नवदिशा

वार्ताहर:-कुलदीपमैन्दोला। शिवमोग्गा (कर्नाटक)। कर्नाटकस्य शिवमोग्गा विमानपत्तने अद्य एकं विलक्षणं दृश्यं दृष्टम्। बैंगलूरुगमन समये वायुयानस्य विलम्बेन यात्रिकाः प्रतीक्षायां स्थिताः सन्तः समयस्य सदुपयोगं कृत्वा संस्कृतसंभाषणेन आकृष्टाः अभवन्।’संस्कृतं सर्वत्र’ इति भावनया प्रेरितं सम्भाषणं उत्तराखण्ड संस्कृत अकादम्याः शोधाधिकारिण: डा. हरीशगुरुरानीवर्यस्य नेतृत्वे सम्पन्नम्। तेन यात्रिकेभ्यः सरलया रमणीयया च संस्कृतभाषया सम्भाषणं पाठितम्। विमानपत्तनपरिसरे एव सर्वे यात्रिकाः संस्कृतभाषां किञ्चित् अभ्यासं कृत्वा तस्याः सौन्दर्यं अनुभूतवन्तः। अवगच्छन्ति च — संस्कृतं न केवलं शास्त्रीयवाङ्मये अस्ति, अपितु जीवनस्य सर्वत्र उपयोग्या अपि। सर्वै: परिचयं एकवारम् श्रुत्वा एव स्वपरिचयं संस्कृतेन दत्तं । सम्भाषणस्य प्रथम परिचय: संस्कृतेन कथनं सर्वेषां कृते अतिसरलम् आसीत् सर्वे अत्य आश्चर्यम् अनुभूतवन्त: यत् बहुसरलतया संस्कृतम् अस्माकं मुखे आगतम् विशेषं यत् शिष्टमण्डलं ‘मुत्तुरुसंस्कृतग्रामस्य विकास प्रतिदर्शम’ उत्तराखण्डे संस्कृतग्रामविकासयोजनायै द्रष्टुं प्राप्तम् आसीत् तदैव विमानविलम्बे सति अवसरोयं समुत्पन्न:। संस्कृतनिदेशकः डा. आनन्द भारद्वाज महोदयः मार्गदर्शनं कृतवान् च पुन: शोधाधिकारिणा सम्भाषणं प्रारब्धं। अथ किं विलम्बेन यः समयः नष्टः स्यात्, सः संस्कृतभाषायाः माधुर्येण समृद्धः अभवत्। यात्रिकाः उल्लसिताः‘एषा अद्भुता अनुभूति:। कदापि न विस्मरिष्यामः संस्कृतपाठं विमानपत्तने।’ संस्कृतं जीवनस्य मार्गे स्वाभाविकतया प्रवहति एषा शिवमोग्गायाः साक्षात् प्रस्तुतिरेव।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page