
(संवादक:- प्रवेशकुमारशुक्ल:, फिरोजाबाद) ‘फिरोजाबादजनपदस्थस्य शिकोहाबादनगरस्य श्रीगङ्गेश्वर-संस्कृत-उत्तरमाध्यमिक-विद्यालये उत्तरप्रदेश-संस्कृत-संस्थानस्य ‘गृहे गृहे संस्कृतमिति’ प्रकल्पान्तर्गतत्वेन आयोजितस्य संस्कृत सम्भाषण शिबिरस्य समापनसमारोहः सम्पन्नः। विगतद्वादशसु दिवसेषु प्रवर्तितशिबिरस्य प्रारम्भः जुलाईमासस्य दशम दिनाङ्के अभवत् , यत्र प्रशिक्षकत्वेन शशांक तिवारी शिबिरं सम्यक्प्रकारेण सञ्चालितवान्। अस्मिन् शिबिरे पञ्चाशच्छात्राः उत्साहेन भागम् स्वीकृतवन्तः। समापनसमारोहे विद्यालयस्य प्रधानाचार्यवर्यः श्रीअशोकतिवारी-महोदयः अध्यक्षतां कृतवान्। कार्यक्रमस्य उद्घाटनं विद्यालयप्रधानाचार्येण मद्भगवत्याः सरस्वत्याः सन्निधौ दीपप्रज्वालनेन माल्यार्पणेन च सानन्दं सम्पादितम्। स्वीयाध्यक्षीये उद्बोधने प्रधानाचार्य-महोदयेन संस्कृतभाषायाः महत्त्वम्, नीतिपरवाक्यानां व्यावहारिक प्रयोगः तथा च व्याकरणस्य अनिवार्य- आवश्यकता वर्तत इत्येवं विषयः विस्तरेण प्रकाशित: । कार्यक्रमस्य सफलायोजनाय आचार्यस्य अभिषेक तिवारि महोदयस्य सविशेषः सहयोगः प्राप्तः। कार्यक्रमे आचार्यः मनोजः, सुधीरः, नवलशर्मा च उपस्थिताः आसन्।