दशदिवसीय-संस्कृतसम्भाषण शिविरस्य समापनम्

देहरादून/ वार्ताहर:। परमार्थवैदिक गुरुकुले, कण्वाश्रमे, कोटद्वारे दश दिनात्मकः सरल संस्कृत संभाषण शिविरः सम्पन्न:। छात्रेभ्यः सरल पद्धत्या संस्कृतशिक्षायाः उद्देश्येन एतत् शिविरं संस्कृतभारती-कोटद्वारं तथा परमार्थवैदिकगुरुकुल-कण्वाश्रम: इत्येतयोः संयुक्ततत्त्वावधाने आयोजितम्।
समापनसमारोहे डॉ. रमाकान्तः कुकरेती, सेवानिवृत्तप्रधानाचार्यः, संस्कृत भारती कोटद्वार नगराध्यक्षः, मुख्यातिथिरूपेण उपस्थितः। मुख्यशिक्षकः कुलदीपः मैन्दोला, मनमोहनः नौटियालः (प्रधानाचार्यः, परमार्थवैदिक गुरुकुलं), राकेशः कण्डवालः (योगशिक्षकः), सिद्धार्थः नैथानी, प्रशान्तः जोशी, विकासः, अम्बेशः पन्तः, प्रवीणः थापाः, श्वेता रावत:, सुदीपः थपलियालः, सुभाषः, रावताचार्यः च गुरुकुलस्य अध्यापकाः च सपरिवारं सप्ततिः छात्राः च उपस्थिताः आसन्। छात्रेषु वेदान्तः, अनिलः, हनुगिरिः, अनुरागः, दिव्यांशः च स्वदशदिनानुभवं संस्कृतभाषायाम् एव सप्रेमम् उक्तवन्त:। श्रीमनमोहनकाला विस्तरेण कथयामास यत् -कण्वाश्रम: इत्यस्य नाम्नः कारणम् कण्वऋषेः तपोभूमिः अस्ति, शकुन्तलायाः पुत्रस्य भरतस्य नाम्ना ‘भारत’ इत्यपि नाम जातम्। राजाविक्रमादित्यस्य भ्रात्रा भर्तृहरिणा निर्मिता पैडिः ‘हरकी पैड़ी’ इत्युच्यते, यतो हरिद्वारस्य नाम प्रसिद्धं जातम्। डॉ. रमाकान्तः कुकरेती उक्तवान् यत-‘पुस्तकेभ्यः वार्षिकं पाठ्यक्रमं पठित्वा अध्ययनं क्रियते, किन्तु संस्कृतभारत्याः मतानुसारं केवलं दशसु दिनेषु द्वौ घण्टौ प्रतिदिनं अभ्यासेन वयं संस्कृतम् अधिगन्तुं शक्नुमः।’ अम्बेशः पन्तः उक्तवान् यत् -‘अद्य समाजः संस्कृतभाषां प्रति आकृष्टः दृश्यते। अस्यां भाषायां अस्माकं सर्वसमृद्धि: अन्तर्भूता अस्ति, अतः संस्कृताध्ययनं आवश्यकम्। एषा अस्माकं दायित्वयुक्ता भाषा यत् संस्कृतं समाजे व्याप्तं कुर्मः। प्रवीणः थापः उक्तवान्-‘संस्कृतं एव संस्कृतेः मूलम्। कण्वा श्रमस्य संस्कृति: विश्वविख्याता आसीत्, गर्वस्य विषयः यत् अद्यापि कण्वाश्रमे संस्कृतं जीवति।’ संस्कृतभारती संस्था १९८१ इत्यस्मिन् वर्षे स्थापिता, भाषायाः लोकोपयोगी स्वरूपे पुनर्जीवनं दातुं समर्पिता अस्ति। एषा संस्था संवाद शिविरादि प्रयोगैः लक्षाणां व्यक्तीनां पर्यन्तं भाषा प्रसारं कृतवती। संस्था विश्वे दशदिनात्मकानि संवादशिविराणि आयोजयति, यया प्रारम्भिकस्तरे अपि जनाः भाषायाः ज्ञानं प्राप्नुवन्ति। पत्राचार पाठ्यक्रमाः, शिक्षक प्रशिक्षणम्, गीता शिक्षण केन्द्राणि, बाल केन्द्राणि, संभाषण संदेशम् इत्याख्यां लोकप्रियपत्रिकां च प्रकाशयति। संस्था अद्यावधि २६ राष्ट्रेषु ४५०० केन्द्राणि स्थाप्य, एककोटि अधिकजनान् संस्कृत शिक्षां प्रदत्तवती। दश सहस्राधिकानि ‘संस्कृतगृहाणि’ अपि स्थापितानि, यत्र सर्वे सदस्याः केवलं संस्कृतेन संवादं कुर्वन्ति। भारतदेशे कर्नाटक राज्ये मत्तूरु, होसाहल्ली तथा मध्यप्रदेशे झीरी, मोहद इत्यादिषु षट् ग्रामाः ‘संस्कृत ग्राम’रूपेण विख्याताः, यत्र सर्वे जनाः केवलं संस्कृते नैव व्यवहारं कुर्वन्ति।

  • editor

    Related Posts

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    शम्भूनाथ त्रिपाठा/प्रयागराज:। रविवासरेमाघ मेलायाःबृहत्तमःउत्सवः’मौनीअमावस्या’इति विश्वासस्य एतादृशः अपूर्वः समुद्रः दृष्टः यत् विश्वस्य अत्यन्तं विकसित राष्ट्राणि आधुनिकमहानगराणि च अपि संगमस्यवालुकाभिः बौनारूपेण दृश्यन्तेस्म एकस्मिन् दिने एव ४ कोटिभ्यः अधिकाः भक्ताः संगमतटेषु डुबकीं कृतवन्तः।…

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    नवदेहली। भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्। निर्वाचनप्रक्रियायां भागं ग्रहीतुं सर्वे भाजपा मुख्यमन्त्रिणः, राज्य-एककानां प्रमुखाः, अन्ये च प्रमुखाः नेतारः दलस्य मुख्यालये एकत्रिताः भविष्यन्ति। नबीनः दलस्य…

    One thought on “दशदिवसीय-संस्कृतसम्भाषण शिविरस्य समापनम्

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    • By editor
    • January 19, 2026
    • 198 views
    मौनीअमावस्यायां संगमे श्रद्धालुषु पुष्पवृष्टिः अभवत्-आस्थापूर्णं स्नानं कर्तुं ४.५२ कोटि जनाः संगमे अवगाहनं कृतवन्तः

    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    • By editor
    • January 19, 2026
    • 131 views
    भाजपा-अध्यक्षत्वेन नबिनस्य नामाज्र्नं, पीएम-शाहः कार्यवाहक-अध्यक्षस्य समर्थनं करोति; निर्वाचनं निर्विरोधं भवितुं निश्चितम्

    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    • By editor
    • January 19, 2026
    • 170 views
    हरिद्वारे ध्वजारोहणसमारोहः- मुख्यमंत्री पुष्करसिंह धामी उक्तवान्-गायत्री परिवारः चेतनायाः प्रवाहः, राष्ट्रियोत्थानस्य प्रेरणादायकः सोपानः अस्ति

    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    • By editor
    • January 19, 2026
    • 98 views
    २०२६ तमे वर्षे बीएमसी-निर्वाचनस्य राजनैतिकनिमित्तानि-महायुति-राजनैतिकपराक्रमस्य व्यापकं मान्यतां प्राप्नोति

    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    • By editor
    • January 19, 2026
    • 120 views
    वरिष्ठानां कनिष्ठानां च नेतृणाम् मध्ये सन्तुलनं स्थापयितुं नितिन नबिनस्य कृते महती आह्वानं भविष्यति

    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    • By editor
    • January 19, 2026
    • 151 views
    ए.आर.रहमानः हिन्दी-चलच्चित्रं धर्मस्य चश्मेन दृष्ट्वा गम्भीरं त्रुटिं कृतवान्

    You cannot copy content of this page