देहरादून/ ऋषिकेश। श्रावणमासस्य प्रथमसप्ताहे काँवरमेला पूर्णवैभवं प्राप्तवती अस्ति। एतादृशः आस्थायाः जलप्लावनः प्रवहति यत् हरिद्वारतः गंगानहर पटलं राजमार्गं च केवलं शिवभक्तानाम् पङ्क्तयः एव दृश्यन्ते। पञ्चदिनान्तरे ८० लक्षं ९० सहस्रं काँवरतीर्थयात्रिकाः स्वगन्तव्यस्थानं प्रत्यागताः। काँवरमेला आधिकारिकप्रारम्भः जुलै-मासस्य ११ दिनाज्रत् इति मन्यते, परन्तु ततः पूर्वमपि शिवभक्ताः हरिद्वार-नगरं प्राप्तुं आरब्धाः आसन्। प्रशासनेन १० जुलैतः कांवरियागणना आरब्धा आसीत्। पुलिस प्रशासनेन प्रकाशितानां तथ्याज्रनुसारं १० जुलैतः मंगलवासरे सायं ६ वादनपर्यन्तं कुलम् ८० लक्षं ९० सहस्रं काँवरतीर्थयात्रिकाः गङ्गाजलं पूरयित्वा स्वगन्त व्यस्थानं प्रति प्रस्थिताः सन्ति। हरिद्वार, गंगा नहर पटल, राष्ट्रिय राजमार्ग सहित सर्वेषु मार्गेषु शिव भक्तानाम् भीडःदृश्यते। केसरवर्णेन चित्रितस्य धार्मिक नगरस्य वातावरणं बोल बम, हर हर महादेव, बम बम भोले इति नाराभिः प्रतिध्वनितम् अस्ति। काँवर-यात्रिकाणां भीडस्य मध्ये पुलिस-प्रशासनं च पूर्णतया सजगतापूर्वकं व्यवस्थां प्रबन्धयति।






