
नवदेहली। राष्ट्रीय स्वयंसेवक संघस्य वार्षिक राष्ट्रीय स्तरस्य प्रान्त प्रचारक सभा अस्मिन् वर्षे ४ जुलाईतः ६पर्यन्तं दिल्ली कार्यालय सभा ‘केशवकुञ्ज’ इत्यत्र भविष्यति। आगामि वर्षे संघस्य स्थापनायाः शतवर्षाणि पूर्णानि भवन्ति। अस्मिन् सन्दर्भे एषा सभा अतीव महत्त्वपूर्णा अस्ति। स्वस्य संगठनात्मक संरचनानुसारं आरएसएस-संस्थायाः देशः ११ प्रदेशेषु ४६ प्रान्तेषु च विभक्तः अस्ति। संघेन सह सम्बद्धानां विविध संस्थानां राष्ट्रिय स्तरस्य संगठनमन्त्रिणः अपि सभायां उपस्थिताः भविष्यन्ति। सभायाः कार्यसूचौ एप्रिल-जून-मासयोः मध्ये आयोजितानां प्रशिक्षण शिबिराणां प्रतिवेदनानि समीक्षा च, आगामिवर्षे संघस्य शताब्दी वर्ष कार्यक्रमस्य सज्जता अन्ये च कार्यक्रमाः सन्ति संघ शताब्दी वर्षस्य कार्यक्रमाः विजयदशमीतः (२ अक्टोबर २०२५) आरभ्यन्ते।