संस्कृतभारत्या: आवासीय प्रबोधनवर्ग: सफलतया सम्पन्नः-संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्

कुलदीपमैन्दोला/मेरठं। संस्कृतभारती-पश्चिमोत्तर प्रदेश क्षेत्रस्य बालेरामब्रजभूषण सरस्वती शिशुमन्दिरे, शास्त्री नगर मेरठमध्ये ‘आवासीय प्रशिक्षण वर्गस्य’ समापन समारोह: भव्यरूपेण सफलतया सम्पन्नः। अयं वर्ग: केवलं संस्कृत भाषायाः प्रचार प्रसाराय न, अपि तु भारतीय संस्कृतेः, संगठन कार्यपद्धतेः, च संस्कृत्या राष्ट्रनिर्माणस्य च गम्भीर विषयेभ्यः समर्पित: आसीत्।
अस्मिन् सन्दर्भे मेरठ-ब्रज-उत्तराखण्ड प्रान्तेभ्यः आगतानां समर्पित कार्यकर्तृणां प्रेरणादायिनी उपस्थिति: सम्पूर्णं वातावरणं हर्षपूर्णं ऊर्जायुतं च कृतवती। ८ जून २०२५ तः आरभ्य २१ जून २०२५ पर्यन्तं चलिते अस्मिन् वर्गे २२ स्थलेभ्यः आगता: १०५ जना: संस्कृत भाषायां संवादं कर्तुं नियमितम् अभ्यासं कृतवन्तः। प्रातःकाल चतुर्वादनात् आरभ्य रात्रौ दशवादन पर्यन्तं सततं संस्कृत भाषायां भाषणं शिक्षणं च प्रशिक्षणा र्थिभिः कृतम्। अस्मिन् वर्गे शिक्षक रूपेण प्रभाकरमणि त्रिपाठी, गिरीशतिवारी, कुलदीपमैन्दोला, तरुण:, गण शिक्षकः आकाश:, रंगराजन:, विनीत:, रुद्र:, सन्तोष:, अंकित:, वीरेन्द्र:, नीलकमल:, पूनमवर्या, राजमणिः, नीरज:, सन्दीप कुमार:, अर्जुन: इत्येते शिक्षायै च व्यवस्थायै च सहयोगं कृतवन्तः। वर्गस्य मार्गदर्शनार्थं संस्कृत भारत्याः विभिन्न पदाधिकारिण: समये समये आगत्य विविधेषु विषयेषु स्वविचारं प्रस्तुतवन्त:। एकता-विषये श्रीशदेवपुजारी-महोदयः सारगर्भितं भाषणं कृत्वा अवदत्-‘एकता एव समाजस्य शक्ति:। संस्कृत भाषा अस्याः एकतायाः आधाररूपेण वर्तते।’ संगठन-कार्य विषये जयप्रकाश-महोदयेन उक्तम्- ‘संगठनेनैव समाजस्य उत्थानं साध्यते। यदा वयं संगठिताः भवाम:, तदा राष्ट निर्माणस्य प्रक्रिया सुदृढा भवति।’ योग-विषये प्रेमचन्द्रशास्त्री-महोदयेन उक्तं-‘योगः भारतीयसंस्कृतेः अमूल्यं दानम् अस्ति। सः केवलं शारीरिकव्यायामः न, अपि तु आत्मा-परमात्मन: मिलनस्य मार्गः अपि अस्ति।’ संस्कृतस्य महत्वे श्रीराम-महोदयेन निगदितम्’संस्कृतं केवलं भाषा न, अपि तु भारतस्य चेतना च विज्ञानस्य मूलधारा च अस्ति। अस्याम् एव विज्ञानम्, गणितम्, व्याकरणम्, चिकित्सायाः ज्ञानम्, तथा आध्यात्मिक विचाराः अपि समाहिताः सन्ति।’समापन-सत्रे अखिलभारतीय-शिक्षणप्रमुखः श्रीराम-महोदयः प्रेरणादायकं भाषणं दत्त्वा उक्तवान्-‘संस्कारैः, समर्पणेन च संस्कृतभाषया सह राष्ट्रस्य च विश्वस्य च कल्याणं सम्भाव्यते। एषा भाषा अस्मान् स्वमूलम् उपनयति, जीवनं च सुसंस्कृतं करोति। ‘वर्गे क्षेत्रीय-संगठनमन्त्री श्रीदेवेन्द्र पण्ड्या-महोदयेन कार्यकर्तन् सम्बोध्य एवमुक्तम्-‘संस्कृतभाषा केवलं भाषा न, किन्तु भारतस्य आत्मा एव। अस्याः पुनरुत्थानेन राष्ट्रस्य वास्तविकम् उत्थानम् सम्भवम्।’ कार्यक्रमस्य गरिमावृद्ध्यर्थम् संस्कृत भारत्याः मेरठ-प्रान्त-अध्यक्षः आचार्यः श्रीवाचस्पतिमिश्र-महोदयः, प्रान्त-संगठनमन्त्री (मेरठत:) श्रीयोगेश विद्यर्थी-महोदयः, प्रान्त-संगठनमन्त्री (उत्तराखण्डत:) श्रीगौरव शास्त्री-महोदयः, व्रजप्रान्तत: गौरव:, वर्गाधिकारी श्रीराजगोपालकात्यायन वर्य:, प्रशिक्षण प्रमुखः श्रीरामः महोदयः च अपि स्वविचारान् प्रस्तुतवान्। अस्मिन् विशेषसन्दर्भे प्रधान-आर्यसमाज-मेरठत:- श्रीराजेश सेठीवर्य:, वरिष्ठ-चिकित्सकः डॉ. विश्वजीत्-बैम्बी, मेरठ-दक्षिण-संयोजकः श्रीराहुलगुप्त-महोदयः, मण्डल-अध्यक्षः श्रीललित-मोरल-महोदयः, श्रीआकाश शर्मा-महोदयः, श्रीनरेन्द्र कुमार-महोदयः, डॉ.अरविन्दनारायण-महोदयः अन्ये च बहवः गणमान्य-नागरिकाः समाजसेविनश्च सादरम् उपस्थिताः आसन्।

  • editor

    Related Posts

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    नवदेहली। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहन भागवतः शनिवासरे अवदत् यत्, ‘भारतस्य स्वभावे संघर्षेषु प्रवृत्तिः नास्ति। देशस्य परम्परायां सर्वदा भ्रातृत्वस्य, सामूहिकसौहार्दस्य च उपरि बलं दत्तम् वर्तते। सः अवदत् यत् भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यव्याख्याभ्यः…

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    लखनऊ। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन शनिवासरे रायपुरनगरे ६० तमे अखिलभारतीय महानिदेशक/ पुलिस महानिरीक्षक सम्मेलनस्य अध्यक्षता कृता। त्रिदिवसीय सम्मेलनं भारतीय प्रबन्धन संस्थायां रायपुरे सम्पन्नम्। २८ नवम्बर् दिनाङ्के आरब्धस्य सम्मेलनस्य कृते शुक्रवासरे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    • By editor
    • November 29, 2025
    • 7 views
    भागवतः अवदत्-भारतस्य स्वभावः द्वन्द्वः न अपितु भ्रातृत्वं-भारतस्य राष्ट्रवादस्य अवधारणा पाश्चात्यचिन्तनात् सर्वथा भिन्ना अस्ति, ते राष्ट्रत्वं न अवगच्छन्ति

    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    • By editor
    • November 29, 2025
    • 7 views
    रायपुरे मोदी-अध्यक्षतायां डीजीपी-आईजीपी सम्मेलनम्-आन्तरिक सुरक्षा नीति निर्माण विषये चर्चा

    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    • By editor
    • November 29, 2025
    • 7 views
    ‘गीडा’ स्थापनादिवसः-सीएम योगी अवदत् यत्, ‘अत्र गोलिकाः प्रहारिताः भवन्ति स्म…सर्वेषां पृष्ठं भग्नं ऋजुं च भवति स्म; अधुना यूपी उत्सवस्य अवस्था अस्ति’

    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    • By editor
    • November 29, 2025
    • 4 views
    एबीवीपी राष्ट्रियसम्मेलनम्-एस सोमनाथः अवदत् यत्, ‘राष्ट्रं केवलं युवानां ज्ञानेन, प्रौद्योगिक्याः, शक्तया च प्रगतिः भविष्यति’

    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    • By editor
    • November 29, 2025
    • 4 views
    एकस्य इतिहासस्य धारणाम् सुदृढं कृत्वा, एकस्य भूगोलस्य प्रतीक्षां कुर्वन्

    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    • By editor
    • November 29, 2025
    • 7 views
    अयोध्या नगरे श्रीराम मन्दिर ध्वजारोहणविषये पाकिस्तानस्य क्रोधः

    You cannot copy content of this page