
नवदेहली। भारतसर्वकारस्य शिक्षामन्त्रालयस्य निर्देशानुसारं श्रीलाल बहादुर शास्त्रीराष्ट्रीय संस्कृत विश्वविद्यालये २१ जून २०२५ दिनाङ्के विवेकानन्दसभागारे प्रातः ०६:३० वादनतः ०९:०० वादनपर्यन्तं विश्वविद्यालयस्य कुलपतिः प्रो.मुरली मनोहर पाठकस्य आध्यक्ष्ये योगसङ्गमकार्यक्रमस्य आयोजनं कृतम्। सर्वप्रथमं आदरणीयप्रधानमन्त्रिणः योगसन्देशस्य प्रसारणं दूरदर्शन द्वारा श्रूयते स्म, तदनन्तरं प्रोटोकॉलानुसारं योगाभ्यासान्तर्गतं विविधानि आसनानि प्राणायामाश्च कृताः। तदनन्तरं कार्यक्रमे मुख्यवक्तृरूपेण समागतः श्रीशैलजानन्दमिश्रः अस्मिन् वर्षे ‘योगथीम-विषये’ प्रकाशं क्षिपन् उक्तवान् यत् पृथिव्याः रक्षणेन एव मनुष्याणां रक्षणं कर्तुं शक्यते तथा च योगद्वारा एव जगति प्रसारयितुं शक्यते। मुख्यातिथिरूपेण आगतः स्वामिविवेकभारतीमहोदयेन उक्तं यत् योगद्वारा आध्यात्मिकं शक्तिम् उन्नयनं कृत्वा जगतः कल्याणं कर्तुं शक्यते। अध्यक्षत्वेन विश्वविद्यालयस्य कुलपतिः प्रो.पाठक महाभागेन उक्तं यत् अस्मिन् वर्षे माननीयप्रधानमन्त्री ‘योग सङ्गमः’ इति विषयस्य केन्द्रे सम्पूर्णं विश्वं संयोजयितुं भावनां प्रसारितवान्। कुलपतिः समाजे योगस्य प्रचारं प्रसारणं च कर्तुं बलं दत्तवान्। अस्मिन् कार्यक्रमे विश्वविद्यालयस्य २०० तः अधिकाः शिक्षकाः, अधिकारिणः, कर्मचारिणः, योगानु रागिणश्च भागं गृहीत्वा योगमहोत्सवस्य आनन्दं लब्धवन्तः। अस्मिन् अवसरे समन्वयकः प्रो.मार्कण्डेयनाथतिवारी एवं सहसमन्वयकः डॉ.रमेशकुमारं सहितं अन्ये विभागीयशिक्षकाः समुपस्थिता आसन्। अस्य कार्यक्रमस्य समापनं शान्तिपाठेन सर्वेषां स्वास्थ्यरक्षणस्य कामनायाम् अभवत्।






