
प्रयागराज:। वार्ताहर:। २१ जून २०२५ इत्यस्यां तारिकायां अन्ताराष्ट्रिय योग दिवसस्य सम्यक् सम्पादनाय शासन/प्रशासन स्तरेषु, सामाजिक संस्थासु च उत्साह: दरीदृश्यते। शिक्षा विभागेन सर्वेषु विद्यालयेषु महाविद्यालयेषु च योग कार्यक्रमस्य कृते सम्यक् आदेश: प्रेषित:। सर्वेषु शैक्षणिक संस्थानेषु एतत्कृते सोल्लासेन सज्जता सुनिश्चिता अभवत्। स्थानीय लक्ष्मीनारायण मंदिर धर्मशाला कल्याणी देवी, सौदामिनी संस्कृत महाविद्यालये, रामदेशिक संस्कृतं महाविद्यालये सच्चा अध्यात्म संस्कृत महाविद्यालये, रामदेशिक संस्कृत महाविद्यालये अथ च अन्येषु संस्कृत विद्यालय/महाविद्यालयेषु सर्वत्र श्व: प्रात: ६ वादनत: योग प्रशिक्षकानां निर्देशने योगाभ्यास: कारयिष्यते। रेलवे आस्थान केष्वपि योग दिवसस्य ब्राण्डिंग प्रारभत् । इफको समेत नैकेषु संस्थानेषु योग दिवस: मानिष्यते। एका पृथ्वी, एकस्मै स्वास्थाय योग इत्यवधारणान्तर्गते प्रयागराज जंक्शन, छिवकी, सूबेदारगंज, कानपुर, मिर्जापुर, लखनऊ इत्येभि सह नैकेषु आस्थानकेषु योग विषयका: वीडियो/आडियो जिंगलस्य प्रसारणं प्रचलति।
अस्मिन् योग दिवसे मण्डल कार्यालये योगाभ्यासस्य कार्यक्रम: अपि भविष्यति। उत: सरस्वती घट्टे केन्द्रीय रेल विद्युतीकरण संगठनस्यतत्वावधाने अधिकारिण: कर्मचारिणश्च योगाभ्यासं अकुर्वन् साम्प्रतम् प्रतिदिनम् दशाश्वमेध घट्टे अरैल घट्टे च सद्गगुय स्वामी टेऊराम संस्थाया: माध्यमेन सुव्यवस्थित रुपेण कुशल योग प्रशिक्षकस्य निर्देशने योगाभ्यास:कर्त्तुं सक्षमा: भविष्यन्ति।